मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Enable Parallel


Showing 51 to 60 of 111 verses
Verse 51
तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्यादस्थानोपनतयमुनासंगमेवाभिरामा ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या जाह्नव्या अमलस्फटिकधवलमुदकं त्वं चेत्पातुं तर्कयेः पश्येस्तत्प्रवाहे प्रसरन्त्या भवतच्छायया कान्या सपदि तत्क्षणं मा गङ्गास्थानोपनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यत्रापि संपन्नकालिन्दीसमागमा यथा रम्या भवेत् । त्वत्प्रतिबिम्बस्य यमुनाकारत्वात् । कीदृशस्त्वम् । सुरगज इवैरावणवन्नभसि पूर्वार्धेनोत्तरभागेण लम्बते यः स पूर्वार्धलम्बी ॥

Verse 52
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् । कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥

Verse 53
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रैरापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तं नगं यदि दावानलो बाधेत दहेत्तदेनमग्नि त्वमासारेण वेगवद्वर्षेण निर्वापयितुमर्हसि । यस्मान्महतामृद्धय आपन्नार्तिप्रशमितफलाः । यदि ह्यार्तानामापन्न विनाश्यते तत्किं समृद्ध्या प्रयोजनम् । कीदृशो दवाग्निः । वाते वहति सति सरलस्कन्धसंघट्टजन्या देवदारुविटपसंयोगसमुत्थितः । तत्संघट्टवशाद्धि दावानलो जायते । तथोल्काभिर्ज्वालाभिर्दग्धचमरीबालभारः ॥

Verse 54
ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मिन्दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् । तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥

Verse 55
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः कल्पन्तेऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्र हिमवति दृषदि शिलायामर्धेन्दुमौलेः शिवस्य व्यक्तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्त्या प्रणतः परीयाः प्रदक्षिणीकुर्याः । यस्मात्तस्मिन्नवलोकिते क्षपितकिल्बिषाः सन्तः श्रद्दधाना भक्ताः करणविगमादूर्ध्वं देहपातादनन्तरमस्य देवस्य स्थिरगणपदप्राप्तये कल्पन्ते । अनश्वराः प्रमथाः संपद्यन्ते । अत एव सदा सिद्धैर्निवेदितोपहारम् । इन्दोरर्धमर्धेन्दुर्मालौ शेखरे यस्य सोऽर्धेन्दुमौलिः । कलामात्रधारित्वेऽपि संस्थानापेक्षमर्धत्वम् । इणः परिपूर्वस्य लिङः सिपि परीया इति रूपम् । करणानीन्द्रियाणि विद्यन्ते यत्र तत्करणं वपुः । अर्श आदिभ्योऽच् ॥

Verse 56
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निर्ह्रादी ते मुरज इव चेत्कन्दरासु ध्वनिः स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समस्तः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तव ध्वनिः कन्दरासु गुहासु निर्ह्रादी घूर्णमानो मुरज इव यदि भवेत्तत्तत्र हरस्य संगीतार्थो गुणनिकावस्तु समस्तोऽखण्डो भावी भविष्यति । अन्या हि तव सामग्री विद्यते । तथा हि कीचका वंशा वातैरुद्धूता मधुरं शब्दायन्ते ध्वनन्ति । भाविताभिश्च किंपुरुषाङ्गनाभिस्त्रिपुरदाहाख्यं काव्यं गीयते । त्वदीयश्च शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थः पशुपतेस्तच्च भावी समस्तः । शब्दं कुर्वन्ति शब्दायन्ते । निर्ह्रादी गम्भीरः ॥

Verse 57
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशमभिसरेस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: प्रालेयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशेषांश्चरणन्यासादीनद्भुतानतिक्रम्योल्लङ्घ्य यत्कौञ्चाद्रिच्छिद्रं हंसानां द्वारभूतं विद्यते तेन रन्ध्रेण त्वं कौबेरीमाशामभिसरेर्गच्छेः । तिर्यग्य आयामो विस्तारस्तेन शोभमानः । अतश्च बलिवचनोत्थितस्य विष्णो: श्यामश्चरण इवेत्युपमा । कीदृग्रन्ध्रम् । भृगुपतिः परशुरामस्तदीयस्य यशसो वर्त्म प्रसरणमार्गः । तेन क्रौञ्चस्य भज्यमानत्वात् । प्रालेयं हिमम् । अतिक्रम्येति परावरयोगे चेति क्त्वा ॥

Verse 58
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिनिशमिव त्र्यम्बकस्याट्टहासः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥

Verse 59
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते सति हलभृतो मेचके वाससीव ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वयि शिखरस्थिते सति तस्य कैलासस्यानिमिषलोचनदृश्यां भाविनीं शोभामुत्प्रेक्षेऽहम् । तस्य कस्येव । अंसन्यस्ते स्कन्धप्रावृते मेचके कृष्णे वस्त्रे हलधरस्येव । मेघस्य कालत्वात् । स्निग्धभिन्नाञ्जनाभेऽरूक्षपिष्टकज्जलनिभ इति मेघविशेषणम् । तस्य तु तत्क्षणच्छिन्नदन्तिदन्तखण्डवलक्षस्य । गौरोऽपि शुभ्रः ॥

Verse 60
हित्वा नीलं भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विहरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलोऽस्याः सोपानत्वं कुरु सुखपदस्पर्शमारोहणेषु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्मिंश्च केलिपर्वते कैलासे शिवेनालम्बितकरा पार्वती यदि पादचारेण चरणाभ्यां विहरेच्चङ्क्रम्येत तदस्यास्त्वमारोहणेषु सोपामत्वं कुर्याः । यतो भङ्गीभक्त्या तरंगविच्छित्या कल्लोलाकारेण विरचितदेहः । अत एव तत्सुखपदस्पर्शं पारुष्याभावाच्छीतलत्वाच्च चरणप्रीतिकारि । स्तम्भितं निश्चलीकृतमन्तरुदरे जलं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं सर्पकटकं हित्वा त्यक्त्वा । पादाभ्यां चारो गमनं पादचारः ॥

Showing 51 to 60 of 111 verses