मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Enable Parallel


Showing 21 to 30 of 111 verses
Verse 21
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैराविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥

Verse 22
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥

Verse 23
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने फलपरिणतिश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वयि निकटे सति दशार्णाख्या जनपदा एवंविधाः संपत्स्यन्ते भविष्यन्ति । कीदृशाः । केतकैः पुष्पैः पाण्डुच्छायाः शुक्लशोभा उपवनवृतय उद्यानकण्ठ्यो येषाम् । मितत्वात्केतकानाम् । सूच्या गर्भकण्टकेन भिन्नैर्विदारितैः । तेषां ह्यन्तःस्था सूचिर्भित्त्वा विनिर्याति । तथा गृहबलिभुजां काकानां नीडारम्भैरालयक्रमैराकुलानि व्याप्तानि ग्रामचैत्यानि येषु । वर्षभयाद्धि पक्षिणः प्रावृषि नान्यत्र निर्यान्ति । चैत्यं बुद्धालयः । यदि वा महाभोगप्रज्ञाततमो वनस्पतिश्चैत्यः । तथा फलानां परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनश्च हंसा येषु । मेघालोके मानसगमनात् ॥

Verse 24
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्तत्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तेषां दशार्णानां विदिशाख्यां राजधानीं गत्वा तत्क्षणमविकलं परिपूर्णं कामुकत्वस्य फलं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यद्यस्माद्वेत्रवत्याः सरितस्तदेवंविधं पयः पास्यमि । कीदृशम् । तीरोपान्ते स्तनितेन पक्षिकूजितेन स्खलितेन वा सुभगं सुन्दरं स्वादु रुच्यं चलोर्मि स्खलितवीचि । अत एव सभ्रूभेदेन मुखेन तुल्यम् । अत एव कामित्वफललाभः । कामी हि कामिन्याः कुटिलभ्रु वक्त्रं स्वादु धयति । ऊर्मीणां भ्रुव उपमानम् । यदिति हेतुपदम् । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः । लक्षणं नाम । लब्धेति तृन्नन्तः ॥

Verse 25
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्र विदिशायां नीचैराख्यमद्रिं विश्रामार्थं त्वमधिवसेरधितिष्ठेराश्रयेः । कीदृशम् । प्रौढपुष्पैर्विकसितकुमुमैः कदम्बैस्ततरुभिर्हेतुभिस्तव सुखदः संक्षेपात्पुलकितमिव रोमाञ्चितमिव । फुलस्य हि कदम्बकुमुमस्य रोमशोभा जायते । केचित्त्वप्रौढेति पेठुर्मुकुलितत्त्वाच्च पुलकाकारतामाहुः । यश्चाद्रिर्नागराणां विदग्धानामुद्दामानि प्रचण्डानि यौवनानि शिलावेश्मभिः प्रख्यापयति । यतः पण्यस्त्रीरतिपरिमलोद्गारिभिर्गणिकासुरतामोदमोचिभिः । विश्रामशब्दः कवीनां प्रमादजः ॥

Verse 26
विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्चन्नुद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्र विश्रान्तः सन्ननन्तरं त्वं यायाः । किं कुर्वन् । वननदी काननसरिन्नदीविशेषो वा । तत्कूलेभवान्युपवनानां यूथिकाजालकानि हरिणीगुल्मान्नवजलकणिरुक्षन् । पुष्पनावीमुखानां मालाकाराङ्गनामुखानां छायादानाद्धेतोः क्षणमात्रं परिचितः सुहृत् । तापापहरत्वात् । कीदृशानां मुखानाम् । कपोलयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या रुजा बाध उपमर्दस्तया क्लान्तकर्णोत्पलानां म्लानश्रवणकुवलयानाम् । रुजाचोत्पलानामेव । भिदादित्वादङ् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । कर्मण्यण् ॥

Verse 27
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: कौबेरीमाशां तव यियासोरुज्जयिनीं प्रति यद्यपि वक्रः पन्थाः कुटिलोऽध्वा तथाप्युज्जयिन्याः सौधोत्सङ्गप्रणयविमुखो हर्म्याङ्कोपभोगवितृष्णो मा भूः । अवश्यं गच्छेरित्यर्थः । यस्मात्तत्र नागरिकाणां नेत्रविभ्रमैर्यदि न रमसे न क्रीडसे तद्वञ्चितोऽसि । द्रष्टव्यादर्शनात् । कीदृशीः । विद्युद्दामस्फुरितचकितैः शम्पागुणविलसनत्रस्तैः । तथा लोलापाङ्गैश्चतुरपर्यन्तैः ॥

Verse 28
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाहे संनिपत्य संश्लिष्य रसाभ्यन्तरो भव पानीयगर्भः स्याः । अपः पिबेरित्यर्थः । अथ च रमाभ्यन्तरः शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनीसाधर्म्यमाह । कीदृश्यास्तस्याः । वीचिक्षोभण कल्लोलकम्पेन स्तनिता कोकूयमाना या विहगश्रेणी पक्षिमाला सैव काञ्चीगुणो रशनादाम यस्याः । तथाभ्यादौ स्खलितेन परिलुठितेन सुभगं सुन्दरं संसर्पन्त्या वहन्त्याः । तथा दर्शितावर्त एव नाभिर्यस्या तस्याः । आह्वानाभावे कथं मम रागिता युक्तेत्याह । नारीणां विभ्रमो विलास एव यस्मात्प्रियेषु प्रणयवचनं प्रार्थनावचः प्रीतिवाक्यं वा । यदालोकनवशादानानां विभ्रमाः प्रवर्तन्ते तैरेवासावभ्यर्थितो भवेत् । साक्षात्तु तासां प्रार्थना लाघवकारिणी । अत्र चावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥

Verse 29
वेणीभूतप्रतनुसलिलां तामतीतस्य सिन्धुं पाण्डुच्छायां तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्तीं कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे सुभग तां निर्विध्यां कार्श्यं कर्तृ येन विधिना प्रकारेण प्रकृतिस्थं त्यजति स विधिर्भवतैव संपाद्यः । वर्षेस्तत्रेवेत्यर्थः । एवं हि तोयपूरागमान्नदी कृशा न भवति । कस्मात्कार्श्यत्यागाय तत्र वर्षामीत्याह । यतसतवातीतस्य विरहावस्थया सौभाग्यं वाज्जभ्यं व्यञ्जयन्तीं कथयन्तीम् । तथा हि त्वद्विरहेण वेणीभूतं प्रतनुत्वात्सलिलं यस्याः । वेणी केशपाशः । तथा तटरुहेभ्यस्तीरजेभ्यस्तरुभ्यो भ्रष्टैर्जीर्णपर्णैःर्जर्जरकिसलयैः पाण्डुरीभुताम् । प्रियविरहे हि नारी तनुः पाण्डुश्च भवति ॥

Verse 30
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततोऽवन्तीनाम जनपदानासाद्य पूर्वोद्दिष्टां पूर्वोक्तां नगरीमुज्जयिनीमनुसर गच्छ । कीदृशांस्तान् । उदयनकथा बृहत्कथावत्सराजवृत्तान्तः । तत्र कोविदाः प्रवीणा ग्रामवृद्धाश्चिरन्तना येषु । तस्य तत्र वर्णनीयत्वात् । पुरीं कीदृशीम् । श्रिया ऋद्ध्या विशालामनल्पां विविधाश्च शाला यस्यास्ताम् । यां चोत्पेक्षामहे । दिव एकं भास्वरं खपदमिव । स्वर्गैकदेशस्य कस्तवागम इत्याह । स्वर्गिणां पुण्यवतं सुचरितफले सुकृतफले उपभुक्तत्वादल्पीभूते किंचिच्छिष्टे सति गां गतानां भुवं प्राप्तानां पुण्यशेषेणाहतं भुवमानीतं मूर्तिमत्स्वर्गखण्डमिवेत्यर्थः । अवन्तीनां निवासो जनपदोऽवन्तयः ॥