मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Enable Parallel


Showing 11 to 20 of 111 verses
Verse 11
तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तां भ्रातृजायां मित्रभार्यां निश्चितमव्यापन्नाममृतामीक्षिष्यसे । कीदृशीम् । दिवसगणनातत्पराम् । कियान्कालो गतः । कियाञ्शेष इत्यधिगणनापरायणाम् । यत एकपत्नीं पतिव्रताम् । एकः पतिर्यस्याः सा ताम् । एवंविधां चेत्कथं तर्ह्यव्यापन्नामित्याह । यस्मान्नारीणां प्रियविरहे हृदयमाशावन्धः प्रायेण रुणद्ध्यवलम्बते । यतः कुमुमसदृशम् । अत एव सद्यःपातप्रणयि तत्क्षणविनाशोन्मुखम् । एवंविधमप्याशया धार्यते । नूनमस्माकं पुनः प्रियेण संयोगो भावीति । आशाबन्ध आशाबन्ध इव । यथाशाबन्धो जालकारकृततन्तुनिकरः कुसुममपि शुष्कं वातेरितं रुन्धे । चशब्दः पूर्ववाक्यापेक्षया समुच्चये । एवमन्यत्र । प्रणयः प्रीतिवन्मुखता । एकपत्नीमिति नित्यं सपत्न्यादिष्विति' ङीब्नकारौ । भातृजायाशब्दे ऋतो विद्यायोनिसंबन्धेभ्य इत्यनुगभावश्चिन्त्यः ॥

Verse 12
कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यं तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥

Verse 13
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुकूलं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे जलद मम गदतोऽध्वानं तावद्भवद्गमनहितमाकर्णय । तदनन्तरं श्रोत्रपेयं कर्णानन्दनं संदेशं श्रोष्यसि निशमयिष्यसि । कीदृशं मार्गमित्यानुकूल्यमाह । खिन्नः खिन्न इति । श्रान्तः संस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि यास्यसि क्षीणप्रायश्च नदीनामगुरु तोयमुपयुज्येति पीत्वा शीघ्रं यास्यसि । पानविश्रामौ हि पथि सुतरामुपयुज्येते । तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः । अव्ययेन हि षष्ठीममामो निषिध्यते । श्रोत्रपेयमिति कृत्यैरधिकार्थवचने । खिन्नः खिन्न इत्यादावाधिको द्वित्वमिति कर्मधारयवत्त्वात्सुब्लुप् भवति । आधिक्ये च द्वित्वमाहितमिति महत्या संज्ञया' ज्ञापितम् । गन्तासीति लुट् । परिलघ्विति क्रियाविशेषणम् ॥

Verse 14
अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेहान् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥

Verse 15
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥

Verse 16
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किं चित्पश्चाद्प्रवलय गतिं भूय एवोत्तरेण ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: मालमुड्डारं" क्षेत्रं किंचिन्मनागारुह्य पश्चादनन्तरमुत्तरेणोत्तरस्यां दिशि भूयो बहुतरं गतिं प्रवलय व्यावर्तय । मालं हि दक्षिणाशास्थं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मालारोहणं वृष्ट्या वधूप्रीत्यर्थम् । मालेन हि तदुपरिभवमाकाशं लक्ष्यते । कीदृशस्त्वम् । वृष्टिदानात्त्वय्यायत्तं कृषिफलमित्यतो हेतोर्जनपदवधूलोचनैः पीयमानः साभिलाषं दृश्यमानः । कीदृशीः । ग्राम्यत्वादभ्रूविलासानभिज्ञैः । अत एव प्रीतिवशात्स्निग्धैररूक्षैः । कीदृशं मालम् । सद्यस्तत्क्षणं सीरेण हलेन यदुत्कषणं विलेखनं तेन सुरभि मुगन्धि । हलोत्कृष्टा हि भूर्जलदजलकणव्यतिकरात्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्येनबन्तः ॥

Verse 17
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अध्वश्रमेण परिगतं व्याप्तं भवन्तं सानुमानद्रिराम्रकूटो मूर्ध्ना शृङ्गेण साधु मम्यग्वक्ष्यति धारयिष्यति । यत आसारेण प्रशमितवनोपप्लवस्त्वम् । त्वया ह्यस्य वेगवर्षेण दावाग्निर्निर्वापितः । किमित्येतावता शिरसा वहनमित्याह । न क्षुद्रोऽपीत्यादि । संश्रयाय वासार्थं सुहृद्यायाते सति क्षुद्रोऽपि दुर्जनोऽपि विमुखो न भवति । किं पुनर्यस्तथा तेन प्रकारेणोच्चैरुन्नतः । कुतः । प्रथमसुकृतापेक्षया । आदावेतेन मे महदुपकृतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यालोचनया न पराङ्मुखीभावः । क्षुद्रः खलो ह्रस्वश्च । उच्चैः प्रांशुर्महामनाश्च । वक्ष्यतीति वहेरूपम् । सानुमान् पर्वतः । तथेत्यनेनोच्चैस्त्वस्य प्रसिद्धिमाह ॥

Verse 18
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वयि शृङ्गमुद्गते सत्याम्रकूटोऽचलो निश्चितं सुरयुगलालोकनीयां रम्यां दशामापत्स्यते । यतः परिणतफलद्योतिभिः पक्वाम्रशोभिभिर्वनाम्रवृक्षेच्छन्नोपान्तच्छादितपर्यन्तः । स्वमपि स्निग्धवेणीसवर्णोऽरूक्षकेशकलापकालः । अतश्च कृष्णचूचुकः समस्तपीतः महीकुच इवेत्युपमा । अत एव देवद्वन्द्वदर्शनम् ॥

Verse 19
स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अश्वमुखादीनां वनेचराणां कान्ताभिः सेवितगहने तत्राद्रौ क्षणं स्थित्वा तदनन्तरं वर्त्म मार्गमवतीर्णस्त्वं रेवां नर्मदामालोकयिष्यसि । कीदृशीम् । उपलविषमे विन्ध्याद्रेः पादेऽधोभागे विशीर्णां विक्षिप्ताम् । अतश्च भक्तिच्छेदविच्छित्तिविभागैर्दत्तां गजवपुषि भूतिं सुधामिवेत्युपमा । तोयोत्सर्गेण जलत्यागेन द्रुततरा चतुरा गतिर्यस्येति वर्त्मतरणे कारणम् । वनचरशब्दे न सप्तम्या अलुक् । बाहुलकात् ॥

Verse 20
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्जम्बूषण्डप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या रेवाया जलमादाय गृहीत्वा त्वं यायाः । यतो वान्तवृष्टिरुत्सृष्टतोयः । कीदृशं जलम् । तिक्तः कटुकैर्वनगजमदैर्वासितं सुरभीकृतम् । विन्ध्यो हि गजावासः । तथा तीरजेन जम्बूषण्डेन जम्बूवनेन प्रतिहतरयं जडीकृतवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भःपानादन्तःसारं परिपूर्णं सन्तं मारुतस्त्वां तुलयितुं परिच्छेत्तुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहितो लघुर्भवत्यवमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । आढ्यो हि सर्वेणाद्रियते । तेन तव जन्लेन गुरुत्वे सति नानिलात्परिभवप्राप्तिः ॥

Showing 11 to 20 of 111 verses