कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः । वामाक्षीणामवज्ञा-विहसित-वसतिर्वृद्ध-भावोऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥
Metre: स्रग्धरा
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् ।आयुः परिस्रवन्ति भिन्न-घटा-दिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥
Metre: वसन्ततिलका
भोगा भङ्गुर-वृत्तयो बहुविधास्तैरेव चायं भवस्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां कामोत्पत्ति-वशात्स्वधामनि यदि श्रद्देयमस्मद्-वचः ॥
Metre: शार्दूलविक्रीडितम्
सखे धन्याः केचित्त्रुटित-भव-बन्ध-व्यतिकरा वनान्ते चित्तान्तर्-विषमविषयाशीत्-विष-गताः । शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ॥
Metre: शिखरिणी
ब्रह्मेन्द्रादि-मरुद्-गणांस्तृण-कणान्यत्र स्थितो मन्यते यत्-स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्य-राज्यादयः । भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते भोः साधो क्षण-भङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥
Metre: शार्दूलविक्रीडितम्
सा रम्या नगरी महान्स नृपतिः सामन्त-चक्रं च तत्पार्श्वे तस्य च सा विदग्ध-परिषत्ताश्चन्द्र-बिम्बाननाः । उद्वृत्तः स च राज-पुत्र-निवहस्ते वन्दिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृति-पथं कालाय तस्मै नमः ॥
Metre: शार्दूलविक्रीडितम्
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।इत्थं नयौ रजनि-दिवसौ लोलयन्द्वाविवाक्षौ कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः ॥
Metre: उपजातिः
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहु-कार्य-भार-गुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमाद-मदिरामुन्मत्त-भूतं जगत् ॥
Metre: शार्दूलविक्रीडितम्
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृत-प्रारब्ध-तत्-तत्-क्रियाः । व्यापारैः पुनर्-उक्त-भूत-विषयैरित्थं विधेनामुना संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥
Metre: शार्दूलविक्रीडितम्
न ध्यानं पदमीश्वरस्य विधिवत्संसार-विच्छित्तये स्वर्ग-द्वार-कपाट-पाटन-पटुर्धर्मोऽपि नोपार्जितः । नारी-पीन-पयोधरोरु-युगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवन-वन-च्छेदे कुठारा वयम् ॥
Metre: शार्दूलविक्रीडितम्