एको रागिषु राजते प्रियतमा-देहार्ध-हारी हरो नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात्परः । दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः शेषः काम-विडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥
Metre: शार्दूलविक्रीडितम्
अजानन्दाहात्म्यं पततु शलभस्तीव्र-दहने स मीनोऽप्यज्ञानाद्बडिश-युतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह वियज्जाल-जटिलान्न मुञ्चामः कानामहह गहनो मोह-महिमा ॥
Metre: शिखरिणी
तृषा शुष्यत्यास्ये पिबति सलिलं शीत-मधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादि-कलितम् । प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं प्रतीकारं व्याधः सुखमिति विपर्यस्यति जनः ॥
Metre: शिखरिणी
तुङ्गं वेश्म सुताः सतामभिमताः सङ्ख्यातिगाः सम्पदः कल्याणी दयिता वयश्च नवमित्यज्ञान-मूढो जनः । मत्वा विश्वमनश्वरं निविशते संसार-कारा-गृहे संदृश्य क्षण-भङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥
Metre: शार्दूलविक्रीडितम्
दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्न-विधुरा दृश्या न चेद्गेहिनी । याच्ञा-भङ्ग-भयेन गद्गद-गल-त्रुट्यद्-विलीनाक्षरं को देहीति वदेत्स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान् ॥
Metre: शार्दूलविक्रीडितम्
अभिमत-महामान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्रामाभोज-स्फुटोज्ज्वल-चन्द्रिका । विपुल-विलल्-लज्जा-वल्ली-वितान-कुठारिका जठर-पिठरी दुस्पुरेयं करोति विडम्बनम् ॥
Metre: हरिणी
पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली कपालिं ह्यादाय न्याय-गर्भ-द्विज-हुत-हुत-भुग्धूम-धूम्रोपकण्ठे । द्वारं द्वारं प्रविष्टो वरमुदर-दरी-पूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनरनुदिनं तुल्य-कुल्येसु दीनः ॥
Metre: स्रग्धरा
गङ्गा-तरङ्ग-कण-शीकर-शीतलानि विद्याधराध्युषित-चारु-शिला-तलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमान-पर-पिण्ड-रता मनुष्याः ॥
Metre: वसन्ततिलका
किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतो वल्कलिन्यश्च शाखाः । वीक्ष्यन्ते यन्मुखानि प्रसभमपगत-प्रश्रयाणां खलानां दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि ॥
Metre: स्रग्धरा
पुण्यैर्मूल-फलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना भू-शय्यां नव-पल्लवैरकृपणैरुत्तिष्ठ यावो वनम् । क्षुद्राणामविवेक-मूढ-मनसां यत्रेश्वराणां सदा वित्त-व्याधि-विकार-विह्वल-गिरां नामापि न श्रूयते ॥
Metre: शार्दूलविक्रीडितम्