शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 321 to 324 of 324 verses
Verse 100a
मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्-सङ्ग-वशोपजात-सुकृत-स्फार-स्फुरन्-निर्मलज्ञानापास्त- समस्त-मोह-महिमा लीने पर-ब्रह्मणि ॥
Metre: शार्दूलविक्रीडितम्

Verse 100b
शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः । येसां निर्झरमम्बु-पानमुचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥
Metre: शार्दूलविक्रीडितम्

Verse 100c
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं मित्रमिदं दया च भगिनी भ्राता मनः-संयमः । शय्या भूमि-तलं दिशोऽपि वसनं ज्ञानामृतं भोजनं ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः ॥
Metre: शार्दूलविक्रीडितम्

Verse 100d
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुम-शयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम सम-दृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥
Metre: शिखरिणी

Showing 321 to 324 of 324 verses