फलं स्वेच्छा-लभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् । मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥
Metre: शिखरिणी
ये वर्तन्ते धन-पति-पुरः प्रार्थना-दुःख-भाजो ये चाल्पत्वं दधति विषयाक्षेप-पर्याप्त-बुद्धेः । तेषामन्तः-स्फुरित-हसितं वासराणि स्मरेयं ध्यान-च्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः ॥
Metre: मन्दाक्रान्ता
ये सन्तोष-निरन्तर-प्रमुदितस्तेषां न भिन्ना मुदो ये त्वन्ये धन-लुब्ध-सङ्कल-धियस्तेसां न तृष्णाहता ।इत्थं कस्य कृते कुतः स विधिना कीदृक्-पदं सम्पदां स्वात्मन्येव समाप्त-हेम-महिमा मेरुर्न मे रोचते ॥
Metre: शार्दूलविक्रीडितम्
भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्य-मदाभिमान-मथनं दुःखौघ-विध्वंसनम् । सर्वत्रान्वहमप्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्रमवायमक्षय-निधिं शंसन्ति योगीश्वराः ॥
Metre: शार्दूलविक्रीडितम्
भोगे रोगमयं कुले च्युति-भयं वित्ते नृपालाद्भयं माने धैन्य-भयं बले रिपु-भयं रूपे जराय भयम् । शास्त्रे वादिभयं गुणे खल-भयं काये कृतान्ताद्भयं सर्वं वस्तु भयान्वितं भुवि नॄणां वैराग्यमेवाभयम् ॥
Metre: उपजातिः
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं सन्तोषो धन-लिप्सया शम-मुखं प्रौढाङ्गना-विभ्रमैः । लोकैर्मत्सरिभिर्गुणा वन-भुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥
Metre: शार्दूलविक्रीडितम्
आधि-व्याधि-शतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृत-द्वारा इव व्यापदः । जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥
Metre: शार्दूलविक्रीडितम्
भोगास्तुङ्गतरङ्ग-भङ्ग-तरलाः प्राणाः क्षण-ध्वंसिनः स्तोकान्येव दिनानि यौवन-सुखं स्फूर्तिः प्रियासु स्थिता । तत्-संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ॥
Metre: शार्दूलविक्रीडितम्
भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला आयुर्वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद्भङ्गुरम् । लीला यौवन-लालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः ॥
Metre: शार्दूलविक्रीडितम्
आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीरर्थाः सङ्कल्प-कल्पा घन-समय-तडिद्-विभ्रमा भोग-पूगाः । कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं ब्रह्मण्यासक्त-चित्ता भवत भवमयाम्भोधि-पारं तरीतुम् ॥
Metre: स्रग्धरा