शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 191 to 200 of 324 verses
Verse 80
विश्वामित्र-पराशर-प्रभृतयो वाताम्बु-पर्णाशनास्तेऽपि स्त्री-मुख-पङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं स-घृतं पयो-दधि-युतं ये भुञ्जते मानवास्तेषामिन्द्रिय-निग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥
Metre: शार्दूलविक्रीडितम्

Verse 81
परिमल-भृतो वाताः शाखा नवाङ्कुर-कोटयो मधुर-विधुरोत्कण्ठा-भाजः प्रिया पिक-पक्षिणाम् । विरल-विरस-स्वेदोद्गारा वधू-वदनेन्दवः प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥
Metre: हरिणी

Verse 82
मधुरयं मधुरैरपि कोकिला कल-रवैर्मलयस्य च वायुभिः । विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥
Metre: द्रुतविलम्बितम्

Verse 83
आवासः किल-किञ्चितस्य दयिता-पार्श्वे विलासालसाः कर्णे कोकिल-कामिनी-कल-रवः स्मेरो लता-मण्डपः । गोष्ठी सत्-कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥
Metre: शार्दूलविक्रीडितम्

Verse 84
पान्थ स्त्री-विरहानलाहुति-कलामातन्वती मञ्जरीमाकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।अप्येते नव-पाटला-परिमल-प्राग्-भार-पाटच्-चरा वान्ति-क्लान्ति-वितान-तानव-कृतः श्रीखण्ड-शैलानिलाः ॥
Metre: शार्दूलविक्रीडितम्

Verse 85
प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः । भवति न यावच्चन्दनतरु- सुरभिर्मलय-पवमानः ॥
Metre: आर्या

Verse 86
सहकार-कुसुम-केसरनिकर- भरामोद-मूर्च्छित-दिग्-अन्ते । मधुर-मधुर-विधुर-मधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥
Metre: उद्गीति

Verse 87
अच्छाच्छ-चन्दन-रसार्द्रतरा मृगाक्ष्यो धारा-गृहाणि कुसुमानि च कौमुदी च । मन्दो मरुत्सुमनसः शुचि हर्म्य-पृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥
Metre: वसन्ततिलका

Verse 88
स्रजो हृद्यामोदा व्यजन-पवनश्चन्द्र-किरणाः परागः कासारो मलयज-रजः शीधु विशदम् । शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कज-दृशो निदाघ-र्तावेतद्विलसति लभन्ते सुकृतिनः ॥
Metre: शिखरिणी

Verse 89
सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश्चातिसुरभिः । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तः क्षोभं न तु विषय-संसर्ग-विमुखे ॥
Metre: शिखरिणी

Showing 191 to 200 of 324 verses