शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 171 to 180 of 324 verses
Verse 60
कश्चुम्बति कुल-पुरुषो वेश्याधर-पल्लवं मनोज्ञमपि । चारभट-चोर-चेटक-नट-विट-निष्ठीवन-शरावम् ॥
Metre: आर्या

Verse 61
धन्यास्त एव धवलायत-लोचनानां तारुण्य-दर्प-घन-पीन-पयोधराणाम् । क्षामोदरोपरि लसत्-त्रिवली-लतानां दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम् ॥
Metre: वसन्ततिलका

Verse 62
बाले लीला-मुकुलितममी मन्थरा दृष्टि-पाताः किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस्ते । सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्-जालमालोकयामः ॥
Metre: मन्दाक्रान्ता

Verse 63
इयं बाला मां प्रत्यनवरतमिन्दीवर-दलप्रभा चीरं चक्षुः क्षिपति किमभिप्रेतमनया । गतो मोहोऽस्माकं स्मर-शबर-बाण-व्यतिकरज्वर- ज्वाला शान्ता तदपि न वराकी विरमति ॥
Metre: शिखरिणी

Verse 64
किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि । मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर्लोलैः कटाक्षैरलं चेतश्चुम्बित-चन्द्र-चूड-चरण-ध्यानामृतं वर्तते ॥
Metre: शार्दूलविक्रीडितम्

Verse 65
विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । हृदयमपि विघट्टितं चेत्सङ्गी विरहं विशेषयति ॥
Metre: उपजातिः

Verse 66
किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् ।इत्युदीक्ष्य नव-मेघ-मालिकां न प्रयाति पथिकः स्व-मन्दिरम् ॥
Metre: रथोद्धता

Verse 67
विरमत बुधा योषित्-सङ्गात्सुखात्क्षण-भङ्गुरात्कुरुत करुणा-मैत्री-प्रज्ञा-वधू-जन-सङ्गमम् । न खलु नरके हाराक्रान्तं घन-स्तन-मण्डलं शरणमथवा श्रोणी-बिम्बं रणन्-मणि-मेखलम् ॥
Metre: हरिणी

Verse 68
यदा योगाभ्यास-व्यसन-कृशयोरात्म-मनसोरविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः । प्रियाणामालापैरधर-मधुभिर्वक्त्र-विधुभिः सनिश्वासामोदैः सकुच-कलशाश्लेष-सुरतैः ॥
Metre: शिखरिणी

Verse 69
यदासीदज्ञानं स्मर-तिमिर-सञ्चार-जनितं तदा दृष्ट-नारी-मयमिदमशेषं जगदिति ।इदानीमस्माकं पटुतर-विवेकाञ्जन-जुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥
Metre: शिखरिणी

Showing 171 to 180 of 324 verses