तावदेव कृतिनामपि स्फुरत्येष निर्मल-विवेक-दीपकः । यावदेव न कुरङ्ग-चक्षुषां ताड्यते चटुल-लोचनाञ्चलैः ॥
Metre: रथोद्धता
वचसि भवति सङ्ग-त्यागमुद्दिश्य वार्ता श्रुति-मुखर-मुखानां केवलं पण्डितानाम् । जघनमरुण-रत्न-ग्रन्थि-काञ्ची-कलापं कुवलय-नयनानां को विहातुं समर्थः ॥
Metre: मालिनी
स्व-पर-प्रतारकोऽसौ निन्दति योऽलीक-पण्डितो युवतीः । यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥
Metre: आर्या
मत्तेभ-कुम्भ-दलने भुवि सन्ति धीराः केचित्प्रचण्ड-मृग-राज-वधेऽपि दक्षाः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्प-दर्प-दलने विरला मनुष्याः ॥
Metre: वसन्ततिलका
सन्-मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टि-बाणाः पतन्ति ॥
Metre: स्रग्धरा
उन्मत्त-प्रेम-संरम्भादारभन्ते यद्-अङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥
Metre: अनुष्टुप्
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु हतः पञ्चेषु-पावकः ॥
Metre: अनुष्टुप्
शास्त्रज्ञोऽपि प्रगुणि-तनयोऽत्यान्त-बाधापि बाढं संसारेऽस्मिन्भवति विरलो भाजनं सद्-गतीनाम् । येनैतस्मिन्निरय-नगर-द्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रू-लता कुञ्चिकेव ॥
Metre: मन्दाक्रान्ता
कृशः काणः खञ्जः श्रवण-रहितः पुच्छ-विकलो व्रणी पूय-क्लिन्नः कृमि-कुल-शतैरावृत-तनुः । क्षुधा क्षामो जीर्णः पिठरक-कपालार्पित-गलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥
Metre: शिखरिणी
स्त्री-मुद्रां कुसुमायुधस्य जयिनीं सर्वार्थ-सम्पत्-करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्च-शिखी-कृताश्च जटिलाः कापालिकाश्चापरे ॥
Metre: शार्दूलविक्रीडितम्