रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1381 to 1390 of 1569 verses
Verse 3
तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अर्थाञ्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः तेषां वरः श्रेष्ठः पिता कुशः। तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयीवार्ता-दण्डनीतिनामर्थमभिधेयमग्राहयदबोधयत्। पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्स्वीकारितवान्। उदवाहयदित्यर्थः। ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वम् स्तीत्युक्तं प्राक् ॥

Verse 4
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिना वशी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जात्य इति॥ जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन। `अभिजातः कुलीनः स्यात्` इत्यमरः। शौर्यवता वशिना तेनातिथिना। करणेन एकमात्मानम्। एको न भवतीत्यनेकस्तम्। अमन्यत। सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ॥

Verse 5
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन चावधि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम्। `योपधात्-` (पा.5।1।132) इत्यादिना वुञ्। उपेयिवान् प्राप्तः सन् समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत्। तेन दैत्येन। अवधि हतश्च। `लुङिच` (पा.2।4।43) इति हनो वधादेशः ॥

Verse 6
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी कुमुदानन्दं शशङ्कं कौमुदी ज्योत्स्नेव। तं कुशमन्वगात्। कुशस्तु। कुः पृथ्वी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः। परानन्देन स्वयमानन्दतीत्यर्थः ॥

Verse 7
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ थयोः कुश-कुमुद्वत्योर्मध्य एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्धं सिंहासनैकदेशः, तद्भाक्। आसीत्। द्वितीया कुमुद्वत्यपि शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी। `संपृच्-` इत्यादिना भजेर्घिनुण्प्रत्ययः। सख्यासीत्। कस्कादित्वाद्दिवस्पतिः साधुः ॥

Verse 8
तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः। आवश्यकार्थे णिनिः। `अकेनोर्भविष्यदाधमर्ण्ययोः` (पा.2।3।70) इति षष्ठीनिषेधः। भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुर्निदधुः ॥

Verse 9
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेदि उन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ॥

Verse 10
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्भेषु संभृतैः संगृहीतैस्तीर्थवारिभिः। करणैः प्रकृतयो मन्त्रिणा उपतस्थु ॥

Verse 11
नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नदद्भिरिति॥ आहतं पुष्करं मुखं येषां तौ। `पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेऽपि च` इत्यमरः। स्निग्धां मधुरं गम्भीरं च नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारंपर्यं कल्याणं भावि शुभमन्वमीयतानुमितम् ॥

Verse 12
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दूर्वेति॥ सोऽतिथिः दूर्वाश्च यवाङ्कुराश्च प्लक्षत्वचश्चु अभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान्। अभिन्नपुटानि मधूकपुष्पाणीति केचित्। कमलानीत्यन्ये। ज्ञातिषु ये वृद्धास्तैः प्रयुक्तान्नीराजनाविधीन्भेजे ॥

Showing 1381 to 1390 of 1569 verses