रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1401 to 1410 of 1569 verses
Verse 23
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्यूपुः प्रत्युप्त चक्रुः ॥

Verse 24
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): चन्दनेनेति॥ किंच, मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेन अङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥

Verse 25
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आमुक्तेति॥ आमुक्ताभरणः आसञ्जिताभरणः। स्रजोऽस्य सन्तीति स्रग्वी। `अस्मायामेधास्रजो विनिः` (पा.5।2।121) इति विनिप्रत्ययः। हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान्। अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत् कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति। एवमन्यत्रापि द्रष्टव्यम्। राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा। `वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः` इति विश्वः। सोऽतिथिः। अतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥

Verse 26
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नेपथ्येति॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम्। उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव। विरराज। तस्य सूर्यसंक्रान्तबिम्बस्य संभवत् `मेरौ`इत्युक्तम् ॥

Verse 27
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः । ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि। `प्राधान्ये राजलिङ्गे च वृषाङअके ककुदोऽस्त्रियाम्` इत्यमरः (अ.को.1|1|59)। तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उञ्चारितजयशब्दः। `आलोको जयशब्दः स्यात्` इति हलायुधः। सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ। `स्यात्सुधर्मा देवसभा` इत्यमरः (अ.को.1|1|59) ॥

Verse 28
वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्धृष्टपादपीठं महीक्षिताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वितानेति॥ तत्र सभायां वितानेनोल्लोचेन सहितम्। `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121)। महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्धृष्टमुल्लिखितं पादपीठं यस्य तत्। पितुरिदं पैतृकम्। `ऋतष्ठञ्` (पा.4।3।78) इति ठञ्प्रत्ययः। आसनं सिंहासनं भेजे ॥

Verse 29
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शुशुभ इति॥ तेन चाक्रान्तं। श्रीवत्सो नाम गृहविशेषः तल्लक्षणं श्रीवत्सरूपम्। `श्रीवत्सनन्द्यावर्तादिविच्छेदा बहवो द्वयोः` इति सज्जनः। महदधिकं मङ्गलायतनं मङ्गलगृहं सभारूपम्। कौस्तुभेन मणिनाऽऽक्रान्तं श्रीवत्सलक्षणम्। केशवस्येदं कैशवम्। वक्ष इव शुशुभे ॥

Verse 30
बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बभाविति॥ सोऽतिथिः कुमारत्वाद्बाल्याद्भूयो यौवराज्यमवाप्यैवानन्तरम्। अधिराजस्य भाव आधिराज्यं माहाराज्यमवाप्य। रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्र्यमुपारूढः पूर्णतां गतश्चन्द्रमा इव बभौ इति व्याख्यानम्। तदपि यौवराज्याभावनिश्चये ज्याय एव ॥

Verse 31
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रसन्नेति॥ प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाऽभिभाषिणमाभाषणशीलं तमतिथिम्। अनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त। `समौ विस्रम्भविश्वासौ` इत्यमरः (अ.को.2|8|23) ॥

Verse 32
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ पुरुहूतश्रीः सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्याम्। ऐरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन्। `अनुपसर्माद्वा` (पा.1।2।43) इति वैकल्पिकमात्मनेपदम्। द्यां चकार। स्वर्गलोकसदृशीं चकारेत्यर्थः। `द्यौः स्वर्पसुरवर्त्मनोः` इति विश्वः ॥

Showing 1401 to 1410 of 1569 verses