रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1361 to 1370 of 1569 verses
Verse 71
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ अवरोधप्रमदासखेनान्तः पुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेन। आकाशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः। अभूदिति शेषः। इन्द्रमनुतवानित्यर्थः ॥

Verse 72
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ। राज्यसममूल्यमित्यर्थः। सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सत्। ममज्ज बुब्रोड ॥

Verse 73
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्नात्वेति॥ असौ कुशः सदारः सन् यथाकामं यथेच्छं स्नात्वा विगाह्य। `तीरे या उपकार्या पूर्वोक्ता तां गतमात्रो गगत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ॥

Verse 74
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् । सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): जयेति॥ यतः कारणात्। तदाभरणंज यश्रियः संवननं वशीकरणम्। `वशक्रिया संवननम्` इत्यमरः (अ.को.3|2|4)। यस्माञ्च गुरुणा पित्रा। आमुक्तपूर्वं पूर्वमामुक्तम्। धृतमित्यर्थः। सुप्सुपेति समासः। अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे। लोभान्न। कुतः? हि यस्माद्धीरो विद्वान्। स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य सः। पुष्पेष्विवाभरणेषु धृतेषु निर्मिल्यबुद्धिं करोतीत्यर्थः ॥

Verse 75
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् । वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः। नद्यां स्नान्ति कौशलेनेति नदीष्णाः। तान्। `सुपि-` (पा.3।2।4) इति योगविभागात्कप्रत्ययः। `निनदीभ्यां स्नातेः कौशले` (पा.8।3।89) इति षत्वम्। सर्वानानायिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश। त आनायिनः सरयूं विगाह्य विलोड्य चन्ध्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाऽम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ॥

Verse 76
कृतः प्रयत्नो न च देव! लब्धं मग्नं पयस्याभरणोत्तमं ते । नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कृत इति॥ हे देव! प्रयत्नः कृतः। पयसि मग्नं त आभरणोत्तमं न च लब्धम्। किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम्। `नूनम्` इति वितर्के ॥

Verse 77
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः । गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान् स कुशस्तीरगतः सन् धनुराततज्यमधिज्यं कृत्वा भुजंगस्य कुमुदस्य नाशाय गारुत्मतं गरुत्मद्देवताकमस्त्रं समाददे ॥

Verse 78
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहृस्तः । रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः संघट्टितास्तरंगा एव हस्ता यस्य स रोधांसि निघ्नन्पातयन्। अवपाते गजग्रहणगर्ते मग्नः पतितः। `अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना` इति यादवः। वन्यः करीव परुषं घोरं ररास दध्वान ॥

Verse 79
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति॥ मथ्यमानात्समुद्रादिव। उद्वृत्तनक्रात्क्षुभितग्राहात्तस्माद्ध्रदात्। लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव। कन्यां पुरस्कृत्य भुजंगराजः कुमुदः सहसोन्ममज्ज ॥

Verse 80
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् । सौपर्णमस्त्रं प्रतिसंजहार प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विभूषणेति॥ विशांपतिर्मनुजपतिः कुशः। `द्वौ विशौ वैश्यमनुजौ` इत्यमरः (अ.को.3|3|225)। विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः। `कर्मण्यण्` (पा.3।2।1) । विभूषणप्रत्युपहारो हृस्तो यस्य तम्। उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसंजहार। तथा हि-सन्तः प्रह्वेषु नम्रेष्वनिर्बन्धरुषोऽनियतकोपा हि ॥

Showing 1361 to 1370 of 1569 verses