रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1351 to 1360 of 1569 verses
Verse 61
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्तिमीनान् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अमी इति॥ वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्ववाश्चञ्चलाः। `चञ्चलं तरलं चैव पारिप्लवपरिप्लवे` इत्यमरः। अमी शिरीषप्रसवा एवावतंसाः कर्णभूषा शैवाललोलाञ्जलनीलिप्रियान्। `जलनीली तु शैवालम्` इत्यमरः। मीनांश्छलयन्ति प्रादुर्भावयन्ति। शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥

Verse 62
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न ञ्छिदुरोऽपि हारः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आसामिति॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफसस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन् हारोऽत एव छिदुरः स्वयं छिन्नोऽपि न संलक्ष्यते। `विदिभिदिच्छिदेः कुरच्` (पा.3।2।162) इति कुरच्प्रत्ययः। शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ॥

Verse 63
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् । जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आवर्तेति॥ विलासिनीनां विलसनशीलानां स्त्रीणाम्। `वौ कषलसकत्थस्नम्भः` (पा.3।2।143) इति घिनुण्प्रत्ययः। रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि। कस्य किमुपमानमित्यत्राह-नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा। `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः (अ.को.1|10|6)। भ्रुवां भङ्गस्तरंगः। स्तनानां द्वन्द्वचराश्चक्रवाकाः। `उपमानम्` इति सर्वत्र संबध्यते ॥

Verse 64
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तीरेति॥ उत्कलापैरुञ्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैः। तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसारि। आसां स्त्रीणां संबन्धि। वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥

Verse 65
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): संदष्टेति॥ संदष्टवस्त्रेषु जलसेकात्संश्लिष्टवस्त्रेष्वबलानां नितम्बेष्वधिकरणेषु। इन्दुप्रकाशेन ज्योत्स्नयाऽन्तरितान्यावृत्तानि यान्युडूनि नक्षत्राणि तत्तुल्याः। मुक्तामयत्वादिति भूषाः। `कलापो भूषणे बर्हे` इत्यमरः (अ.को.3|3|136)। मौरम्। निःशब्दतामित्यर्थः। भजन्ते ॥

Verse 66
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): एता इति॥ दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्नैर्जलसेकादृज्वग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून् वमन्ति वर्षन्ति ॥

Verse 67
उद्बन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः । मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उद्बन्धेति॥ उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः। च्युतपत्रलेखः क्षरितपत्ररचनः। विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताडङ्का यस्मिन्सः। एवमम्भोविहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव। रम्याणां विकृतिरपि श्रियं तनोतीति भावः ॥

Verse 68
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशो नौर्विमानमिव नौविमानम्। उपमितसमासः। तस्मादवतीर्य विलोलहारः सन्, ताभिः स्त्रीभिः सहकरेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटितनलिनी यस्य स तथोक्तः सन्। `नद्यृतश्च`(5।4।153) इति कप्रत्ययः। वन्यो द्विपेन्द्र इव। अप्सु रेमे ॥

Verse 69
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः । प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो भ्राजिष्णुना प्रकाशनशीलेन। `भुवश्च` (पा.4।1।47) इति चकारादिष्णुच्। नृपेणानुगताः संगतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः। प्रागेव इन्द्रनीलयोगात्पूर्वमेव। केवला अपीत्यर्थः। मुक्ता मणयो नयनाभिरामाः। उन्मयूखमिन्द्रनीलं प्राप्य किमुत> अभिरामा इति किमु वक्तव्यमित्यर्थः ॥

Verse 70
वर्णोदकैः काञ्चनश्रृङ्गमुक्तैसतमायताक्ष्यः प्रणयादसिञ्चन् । तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वर्णोदकैरिति। तं कुशम्। आयताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन्। तथागतस्तथास्थितः। वर्णोदकसिक्त इत्यर्थः। स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव। अतितरां बभासेऽत्यर्थं चकासे ॥

Showing 1351 to 1360 of 1569 verses