रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1331 to 1340 of 1569 verses
Verse 41
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्याः सा। `विपणिः पण्यवीथिका` इत्यमरः (अ.को.2|2|2)। सा पूः अयोध्या। मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः। `वाजिशाला तु मन्दुरां` इत्यमरः (अ.को.2|2|2)। `जिदृक्षि-` (पा.3।2।157) इत्यादिनेनिप्रत्ययः। तुरंगैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तैर्नागैश्च। सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव। आबभासे ॥

Verse 42
वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वसन्निति॥ स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन्। दिवो भर्त्रे देवेन्द्राय तथाऽलकेश्वराय कुबेरायापि न स्पृहयांबभूव। तावपि न गणयामासेत्यर्थः। `स्पृहेरीप्सितः` (पा.1।4।37) इति संप्रदानत्वाञ्चतुर्थी। एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥

Verse 43
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथास्य कुशस्य। रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम्। एकान्तमत्यन्तं पाण्ड्वोः स्तनयोर्लम्बिनो हारा यस्मिंस्तम्। निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम्। एवं शीतलप्रायं प्रियाया वेशं नेपथ्यमुपदेष्टुमिव। घर्मो ग्रीष्म आजगाम ॥

Verse 44
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अगस्त्येति॥ अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति। उत्तरा दिक्। आनन्दशीतां बाष्पवृष्टिमिव। हैमवतीं हिमवत्संबन्धिनीं हिमस्रुतिं हिमनिष्यन्दं हिमनिष्यन्दं ससर्ज। अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ॥

Verse 45
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रवृद्धेति॥ अतिमात्रं प्रवृद्धतापो दिवसः। अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च इत्येतावुभौ विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दंपती इव। आस्ताम्। तयोरपि तापकार्श्यसंभवात्तत्सदृशाबभूतामित्यर्थः ॥

Verse 46
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दिने दिन इति॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत्। अत एव उद्दण्डपद्मं गृहदीर्घिकाणामम्भः। नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव। विहारयोग्यमभूदित्यर्थः। `प्रयाणे द्वयसच्-` (पा.5।2।37) इति द्वयसच्प्रत्ययः ॥

Verse 47
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वनेष्विति॥ वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु । `गन्धस्य -` (पा.5।4।135) इत्यादिना समासान्त इकारादेशः। सायंतनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः। मकरन्दलोभादित्यर्थः। भ्रमर एषां कुड्मलानां संख्यां गणनां चकारेव ॥

Verse 48
स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसंदष्टशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्वेदेति॥ स्वेदानुविद्धमार्द्रं नूतनं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां कपोले भूयिष्ठमत्यर्थं संदष्टशिखं विश्लिष्टकेसरम्, अत एव कर्णाञ्च्युतमपि। शिरीषपुष्पं सहसा न पपात ॥

Verse 49
यन्त्रप्रवाहैः शिशिरैः परीतान्ससेन धौतान्मलयोद्भवस्य । शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यन्त्रेति॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवाहैर्यन्त्रसंचारितसलिलपूरैः परीतान् व्याप्तान्। मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ॥

Verse 50
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु ॥ कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): स्नानेति॥ वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेण मन्दवीर्योऽतिदुर्बलः कामः स्नानार्द्राश्च ते मुक्ताश्च। धूपसंचारणार्थमित्यर्थः, तेषु। अनुधूपवासं धूपवासानन्तरं विन्यस्ताः सायंतनमल्लिका येषु तेषु। अङ्गनानां केशेषु बलं लेभे। तैरुद्दीपित इत्यर्थः ॥

Showing 1331 to 1340 of 1569 verses