मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥
Metre: उपजातिः
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥
Metre: उपजातिः
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥
Metre: उपजातिः
स पूर्वजानां कपिलेन रोषाद्भास्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥
Metre: उपजातिः
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥
Metre: इन्द्रवज्रा
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥
Metre: इन्द्रवज्रा
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा । कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥
Metre: उपजातिः
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥
Metre: उपजातिः
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥
Metre: उपजातिः
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥
Metre: उपजातिः