रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1371 to 1380 of 1569 verses
Verse 81
त्रौलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): त्रैलोक्येति॥ अस्त्रं विद्वानस्त्रविद्वान्। `न लोक-` (पा.2।3।69) इत्यादिना षष्ठीसमासनिषेधः। `द्वितीया श्रिता-` (पा.2।1।24) इत्यत्र `गम्यादीनामुपसंख्यानाद्द्वितीया`(वा.1247) इति योगविभागाद्वा समासः। गारुडास्त्रमहिमाभिज्ञ इत्यर्थः। कुमुदः। त्रयो लोकास्त्रैलोक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम्। अत एव प्रभावाद्द्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मूर्ध्नाऽभिवन्द्य प्रणम्य बभाषे ॥

Verse 82
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम्? ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति॥ त्वाम्। `ओएदनान्तरस्तण्डुल` इतिवत् कार्यान्तरः कार्यार्थः। `स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्` इति शाश्वतः। स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि। `आत्मा वै पुत्रनामासि`(आश्व.ग-.1।15) इति श्रुतेरित्यर्थः। स जानन्नहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः। `धृ प्रीतौ` इति धातोः स्त्रियां क्तिन्। विघातं कथं नामाचरेयम्? असंभावितमित्यर्थः ॥

Verse 83
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): करेति॥ कराभिघातेनोत्थित ऊर्ध्वं गतः कन्दुको यस्याः सा। कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थः। इयं बाला अन्तरिक्षाज्ज्योतिर्नक्षत्रमिव। `ज्योतिर्भद्योतदृष्टिषु` इत्यमरः (अ.को.3|3|245)। ह्रदात्पतत्त्वदीयं जैत्राभरणमालोक्य। अतिकुतूहलेनात्यन्तकौतुकेन। आदत्तागृह्णात् ॥

Verse 84
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तदेतदाभरणमाजानुविलम्बिना दीर्घेण। ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्नं तदेव लाञ्छनं यस्य तेन। भूमे रक्षायाः परिघेण रक्षार्गलेन। `परिघो योगभेदास्त्रमुद्गरेऽर्गलघातयोः` इत्यमरः। अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु। एतैर्विशषणैर्महाभाग्यशौर्यधुरंधरत्वबलवत्त्वादि गम्यते ॥

Verse 85
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव! पादयोस्ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इमामिति॥ किंच, हे पार्थिव! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया। `शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः` इति विश्वः। आत्मापराधमाभरणग्रहणरूपं नुदतीम्। परिजिहीर्षन्तीमित्यर्थः। `आशंसायां भूतवञ्च` (पा.3।3।132) इति चकाराद्वर्तमानार्थे शतृप्रत्ययः। `आच्छीनद्योर्नुप्` (पा.7।1।80) इत्यस्य वैकल्पिकत्वान्नुमभावः। इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न। अर्हस्येवेत्यर्थः ॥

Verse 86
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् । संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति पूर्वश्लोकोक्तम्। ऊचिवानुक्तवान्। ब्रुवः क्वसुः। उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः। हे कुमुद! भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास। न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः। आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥

Verse 87
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्ता न्ग्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥
Metre: मन्दाक्रान्ता
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ मनुजपतिना कुशेन साहचर्याय। सहधर्माचरणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्या ऊर्णा मेषादिलोम। `ऊर्णा मेषादिलोम्नि स्यात्` इत्यमरः (अ.को.3|3|56)। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि वलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान् व्यश्नुवानो व्याप्नुवन्। दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम्। ववृषुः। `आश्चर्य` शब्दस्य `रौद्रं तूग्रममी त्रिषु। चतुर्दश` इत्यमरवचनात्त्रिलिङ्गत्वम् ॥

Verse 88
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥
Metre: मन्दाक्रान्ता
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थं नागः कुमुदः। त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम्। `पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः` इत्यमरः। तस्य गुरूरामः। तस्यौरसं धर्मपत्नीजं पुत्रम्। `औरसो धर्मपत्नीजः`(2।128) इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा। एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपौर्वैनतेयाद्गरुडात्। गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमत एव पौरकान्तः पौरप्रियः सन्। शशास ॥

Verse 1
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अतिथिमिति॥ कुमुद्वती काकुत्स्थात्कुशात्। अतिथिं नाम पुत्रम्। चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रेर्यामात्प्रहरात्। `द्वौ यामप्रहरौ समौ` इत्यमरः (अ.को.1|4|7)। प्रसादं वैशद्यमिव। प्राप। ब्राह्मे मुहूर्ते सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ॥

Verse 2
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः । अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ पितृमान्। प्रशंसार्थे मतुप्। सुशिक्षित इत्यर्थः। अनुपमद्युतिः सवितुश्चेदं विशेषणम्। सोऽतिथिः पितुः कुशस्य मातुः कुमुद्वत्याश्च वंशम्। सविता। उत्तरदक्षिणावुभौ मार्गाविव। अपुनात् पवित्रीकृतवान् ॥

Showing 1371 to 1380 of 1569 verses