रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1321 to 1330 of 1569 verses
Verse 31
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मार्गेति॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु। `कटकोऽस्त्री नितम्बोऽद्रेः` इत्यमरः (अ.को.2|3|5)। मार्गैषिणी मार्गावलोकिनी। अत एव बहुधा विभिन्ना। महाविरावा दीर्घशब्दा सा सेना। रेवेव नर्मदेव। `रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका` इत्यमरः (अ.को.2|3|5)। गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥

Verse 32
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य। प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन्। विन्ध्यं व्यलङ्घयत् ॥

Verse 33
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तीर्थ इति॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन्। अभूततद्भावे च्विः ॥

Verse 34
स पूर्वजानां कपिलेन रोषाद्भास्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितम्। त्रिस्रोतस इदं त्रैस्नोतसम्। गाङ्गमम्भो ववन्दे ॥

Verse 35
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति कैश्चिदहोभिरध्वनोऽवसाने कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम्। वेदिः प्रतिष्ठास्पदं येषां तान्। यूपाञ्छतशोऽपश्यत् ॥

Verse 36
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): आधूयेति॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रामाणां शाखा आधूयेषद्धत्वा। सुरभिर्मन्दश्चेत्यर्थः। शीतान्सरयूतरंगांश्च स्पृष्ट्वा। अनेन शैत्योक्तिः। क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ॥

Verse 37
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा । कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रिपुषु मग्नं शल्यं शङ्कु शरो वा यस्य सः। `शल्यं शङ्कौ शरे वंशे` इति विश्वः। पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाशअचलन्तो वा ध्वजा येषां तानि। तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते। `ग्रामान्त उपशल्यं स्यात्` इत्यमरः। निवेशयामास ॥

Verse 38
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलितोपकरणत्वात्तां तथागताम्। शून्यामित्यर्थः। पुरमयोध्याम्। मेघा अपां विसर्गाज्जलसेकान्निदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव। नवीचक्रुः परिपूरयांचक्रुः ॥

Verse 39
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो रङुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः। अर्चा इत्यर्थः। परार्धअयप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां निर्वर्तयामास कारयामास। अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम्। अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभावप्रसङ्गात्। भवितव्यं वृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥

Verse 40
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं `राजशब्द` पूर्वं निशान्तम्। राजभवनमित्यर्थः। `निशान्तं भवनोषसोः` इति विश्वः। कामी कान्तहृदयमिव प्रविश्य। अन्यैर्निशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मानानुसारेण। यथार्हं यथोचितम्। तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥

Showing 1321 to 1330 of 1569 verses