रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1341 to 1350 of 1569 verses
Verse 51
आपिञ्जरा बद्धरजः कणत्वान्मञ्जर्युदार शुशुभेऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आपिञ्जरेति॥ बद्धरजःकणत्वाद्व्याप्तरजः कणत्वादापिञ्जरोदारा द्राघीयसी अर्जुनस्य ककुभवृक्षस्य। `इन्द्रद्रुः ककुभोऽर्जुनः` इत्यमरः (अ.को.2|4|45)। मञ्जरी। देहं दग्ध्वापि रोषाद्गिरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन। सोमादित्वाच्छप्रत्ययः। गिरौ शेत इति विग्रहे तु `गिरौ शेतेर्डः`(वा.1999) इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात्। तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम्। खण्डीकृता मनोभवस्य ज्या मौर्वीव। शुशुभे ॥

Verse 52
मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ॥ संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मनोज्ञेति॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते। सहकारभङ्गं चूतपल्लवखण्डम्। पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वेक्षुरसप्रकृतिकः सुराविशेषस्तम्। `शीङोधुक्`(उ.सू.478) इत्यणादिसूत्रेण `शीङ् स्वप्ने` इत्यस्माद्धातोर्धुक्प्रत्ययः। `पक्वैरिक्षुरसैरस्त्री शीधुः पक्वरसः शिवः` इति यादवः। नवं पाटलायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदाघावधिना ग्रीष्मकालेन। `अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च` इति विश्वः। कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ॥

Verse 53
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): जनस्येति॥ थस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषे सातिशयं यथा तथा कान्तौ बभूवतुः। कौ द्वौ? तापापनोदे क्षमा योग्या, पादयोरङ्घ्रयोः पादानां रश्मीनां च सेवा ययोस्तौ। उदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ॥

Verse 54
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन्। `लोलश्चलसतृष्णयोः` इत्यमरः (अ.को.3|3|214)। रोधोलतापुष्पाणां वहे प्रापके। पचाद्यच्। ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य। वनिताभिः सहेत्यर्थः। विहर्तुमिच्छा बभूव ॥

Verse 55
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोषकार्या यस्यास्ताम्। आनायो जालमेषामस्तीत्यानायिनो जालिकाः। `जालमानायः` (पा.3।3।124) इति निपातः। `ानायः पुंसि जालं स्यात्` इत्यमरः (अ.को.1|10|16)। तैः, अपकृष्टनक्रामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रेमे। अत्र कामन्दकः-`परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्तसैन्यचक्रम्। सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः॥` इति ॥

Verse 56
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सरित् सरयूः। तीरसोपानपथेनावतारादवतरणादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ॥

Verse 57
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दर्शी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किरातीं चामरग्राहिणीं बभाषे। `किरातस्तु द्रुमान्तरे। स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः` इति केशवः ॥

Verse 58
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पश्येति॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोङ्यमान एष सरयूप्रवाहः। साभ्रः समेघः संध्योदयः संध्याविर्भाव इव। अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य। वाक्यार्थः कर्म ॥

Verse 59
विलुप्तमन्तः पुरसुन्दरीणां यदञ्जनं नौलिलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विलुप्तमिति॥ नौलुलिताभिर्नौक्षुभिताभिरद्भिः। अन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम्। प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ॥

Verse 60
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्धोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): एता इति॥ गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रः। गुरुश्रोमिपयोधरत्वादात्मानं शरीरमुद्धोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यद्या तथा रागवशात् क्रीडाभिनिवेशपारतन्त्र्यात्। प्लवन्ते तरन्ति ॥

Showing 1341 to 1350 of 1569 verses