दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दृःखमिन्द्रियगणो निवार्यते ॥
Metre: रथोद्धता
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥
Metre: रथोद्धता
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥
Metre: रथोद्धता
बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥
Metre: रथोद्धता
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥
Metre: रथोद्धता
तं गृहोपवन एव संगगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिमपदिश्य मन्त्रिणः संभृते शइखिनि गूढमादधुः ॥
Metre: रथोद्धता
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलभक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥
Metre: रथोद्धता
तस्यास्तथाविधनरेन्द्रविपत्तिशोका- दुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥
Metre: वसन्ततिलका
तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना- मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥
Metre: मन्दाक्रान्ता