रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1541 to 1550 of 1569 verses
Verse 29
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्नपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): कण्ठेति॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत्। अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत्। निशात्यये विसर्गो विसृज्य गमनं तत्र यञ्चुम्बनं तत्प्रार्थयन्त। `दुह्याच्-` इत्यादिना द्विकर्मकत्वम्। अत्र गोनर्दीयः-`रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः` इति ॥

Verse 30
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् । पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रेक्ष्येति॥ युवा सोग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं तर्पणतलस्थं दर्पणसंक्रान्तम्। आत्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥

Verse 31
मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः । विद्म हे शठ! पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): मित्रेति॥ मित्रकृत्यं सुहृत्कार्यमपिदिश्य व्याजीकृत्य पार्श्वतः प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रियाः, हे शठ हे गूढविप्रियकारिन्। `गूढविप्रियकृच्छठः`(2।7) इति दशरूपके। तव पलायनस्य छलान्यञ्जसा तत्त्वतः। `तत्त्वे त्वद्धाञ्जसा द्वयम्` इत्यमरः (अ.को.3|4|12)। विद्म जानीमः। `विदो लटो वा` (पा.3।4।83) इति वैकल्पिको मादेशः। इति उक्त्वेति शेषः। कचग्रहैः केशकर्षणै रुरुधुः। अत्र गोनर्दीयः-`ऋतुस्नाताभिगमने मित्रकार्ये तथापदि। त्रिष्वेतेषु प्रियतमः क्षन्तध्यो वारगम्यया।` इति। विरक्तलक्षणप्रस्तावे वात्स्यायनः-`मित्रकृत्यं चापदिश्यान्यत्र शएते` इति ॥

Verse 32
तस्य निदयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः । अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङअगनविशेषमषदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म। कण्ठसूत्रलक्षणं तु -`यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूढम्। परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः`। इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम्। तथा हि-`उरसि कमितुरुञ्चैरादिशन्ती वराङ्गी स्तन्युगमुपधत्ते यत्स्तनालिङ्गनं तत्` इति ॥

Verse 33
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): संगमायेति॥ संगमास्य सुरतार्थं निशइ गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी। तं चारदूतिकथितम्। चरन्तीति चारा गूढचारिण्यः। `ज्वलितिकसन्तेभ्यो णः` (पा.3।1।140) इति णप्रत्ययः। चाराश्च ता दूत्यश्च चारदूतयः। ताभिः कथितं निवेदितं तमग्निवर्णम्। अङ्गनाः पुरोऽग्रे गताः। अवरुद्धमार्गाः सत्य इत्यर्थः। हे कामुक!तमसा वृतो गूढः सन् कुतो वञ्चयिष्यसीति। उपालभ्येति शेषः। चकृषुः। स्ववासं निन्युरित्यर्थः ॥

Verse 34
योषितामुडुपतेरिवार्चिषां स्पर्शनिर्वृत्तिमसाववाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): योषितामिति॥ उडुपतेरिन्दोरर्चिषां भासामिव। `ज्वाला भासो न पुंस्यर्चिः` इत्यमरः। योषितां स्पर्शनिर्वृत्तिं स्पर्शसुखमवाप्नुवन्। किंच, रात्रिषु जागरपरः। दिवा दिवसेषु शेते स्वपितीति दिवाशयः। `अधिकरणे क्षेतेः` (पा.3।2।15) इत्यच्प्रत्ययः। असावग्निवर्णः कुमुदाकरस्योपमां साम्यम्। आरुरोह प्राप ॥

Verse 35
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिल्पकार्य उभयेन वेजितास्तं विजिह्यनयना व्यलोभयन् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): वेणुनेति॥ दशनैः पीडिताधरादष्टोष्ठाः। नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः। व्रणिताधरोरुत्वादक्षमा इत्यर्थः। तथापि वेणुना वीणया चेत्युभयेन। अधरोरुपीडाकरेणेत्यर्तः। वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः। `कर्मण्यण्` (पा.3।2।1) इत्यण्। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। तं विजिह्यनयनाः कुटिलदृष्टयः सत्यः। स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन्। तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ॥

Verse 36
अङ्गसत्त्ववचजनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अङ्गेति॥ अङ्गं हस्तादि। सत्त्वमन्तःकरणम्। वचनं गेयं च श्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम्। आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः। यथाह भरतः-`सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः` इति। नृत्यमभिनय मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन्। स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाट्याचार्यैः सह संजघर्षं संघर्षं कृतवान्। संघर्षः पराभिभवेच्छा ॥

Verse 37
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबहिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अंसेति॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य। नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्याग्निवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥

Verse 38
विग्रहाञ्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): विग्रहादिति॥ `प्रावृषि` इत्यनुषज्यते। सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयेन पराङ्मुखीरबला अनुनेतुं न तत्वरे न त्वरितवान्। किंतु घनशब्देन घनगर्जितेन विक्लवाश्चिकिताः, अत एव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः। `आच्छीनद्योर्नुम्` (पा.7।1।80) इति नुम्विकल्पः। ता अबला आचकाङ्क्ष। स्वयंग्रहादेव सांमुख्यमैच्छदित्यर्थः ॥