रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1271 to 1280 of 1569 verses
Verse 84
सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् । मा मेतिव्याहरत्येव तस्मिन्पालातमभ्यगात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा वसुंधरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव। व्याहरन्तमनादृत्येत्यर्थः। `षष्ठी चानादरे` (पा.2।3।38) इति सप्तमी। पातालमभ्यगात् ॥

Verse 85
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः । गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धरायामिति॥ सीताप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शीं गुरुर्ब्रह्मा शमयामास। अवश्यंभावी विधिरिति भावः ॥

Verse 86
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऋषीनिति॥ रामो यज्ञान्ते पुरस्कृतान्पूजितान्। ऋषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ॥

Verse 87
युधाजितश्च संदेशात्स देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): युधाजित इति॥ किंच, भृतप्रजः स रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय। रामेणेति शेषः। भरताय ददौ ॥

Verse 88
भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भरत इति॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम्। `ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्।` इत्यमरः (अ.को.1|7|5)। ग्राहयामास। आयुधं समत्याजयत् त्याजितवान्। ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसंधेयम् ॥

Verse 89
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स भरतः। अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः। तक्षपुष्कलाख्ययोरित्यर्थः। पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥

Verse 90
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अङ्गदमिति॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसंभवौ पुत्रौ। कारापथो नाम देशः। तस्येश्वरौ चक्रे ॥

Verse 91
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥

Verse 92
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपत्यिति॥ अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ संभाषिणावावां यः पश्येत्। रहस्यभङ्गं कुर्यादित्यर्थः। तं त्यजेरिति ॥

Verse 93
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन्। परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ॥

Showing 1271 to 1280 of 1569 verses