रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1261 to 1270 of 1569 verses
Verse 74
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयोज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव। आनाययामास ॥

Verse 75
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अन्येद्युरिति॥ अथ काकुत्स्थो रामः। अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसंधानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिम्। आह्वाययामासाकारयामास ॥

Verse 76
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया । क्रचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वरेति॥ अथ स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः। तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव। पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥

Verse 77
काषायपरिवीतेन स्वपदार्पितचक्षुषा । अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काषायेति॥ कषायेण रक्तं काषायम्। `तेन रक्तं रागात्` (पा.4।2।1) इत्यण्। तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ॥

Verse 78
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जना इति॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात् प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताः शालय इव अवाङ्मुखा अवनतमुखास्तस्थुः ॥

Verse 79
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से! भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु। इति तां सीतामशाच्छास्ति स्म ॥

Verse 80
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्यसीता सत्यां सरस्वतीं वाचमुदीरयामासोञ्चारयामास ॥

Verse 81
वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि! मामन्तर्धातुमर्हसि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वाङ्मन इति॥ वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि। विश्वं बिभर्तीति विश्वंभरा भूमिः। `संज्ञायां भृतॄ-` (पा.3।2।46) इत्यादिना खच्प्रत्ययः। `अरुर्द्विषत्-` (पा.6।3।67) इत्यादिना मुमागमः। हे विशअवंभरे देवि! मामन्तर्धातुं गर्भे वासयितुमर्हसि ॥

Verse 82
एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ॥

Verse 83
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र प्रभामण्डले नागफणोत्क्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात्। वसूनि धारयतीति वसुंधरा भूमिः। `खचि ह्रस्वः` (पा.6।4।94) इति ह्रस्वः। प्रादुरासीत् ॥

Showing 1261 to 1270 of 1569 verses