इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥
Metre: अनुष्टुप्
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥
Metre: अनुष्टुप्
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया । क्रचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥
Metre: अनुष्टुप्
काषायपरिवीतेन स्वपदार्पितचक्षुषा । अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥
Metre: अनुष्टुप्
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥
Metre: अनुष्टुप्
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥
Metre: अनुष्टुप्
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥
Metre: अनुष्टुप्
वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि! मामन्तर्धातुमर्हसि ॥
Metre: अनुष्टुप्
एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥
Metre: अनुष्टुप्
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥
Metre: अनुष्टुप्