रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1281 to 1290 of 1569 verses
Verse 94
विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् । भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विद्वानिति॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसंदर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन्। तयोः काल-रामयोः समयं संवादम्। अभिनद्बिभेद ॥

Verse 95
स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥

Verse 96
तस्मिन्नात्मचतुर्भागे प्राङ्गकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ चतुर्थो भागश्चतुर्भागः। संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत्। आत्मचतुर्भागे तस्मिंल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव। शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः। त्रेतायां धर्मस्त्रिपादित्याहुः। पादश्चतुर्थांशुः अङ्घ्रिश्च ध्वन्यते। `पादा रश्म्यङ्घ्रितुर्यांशाः` इत्यमरः (अ.को.3|3|97)। त्रयः पादा यस्यासौ त्रिपात्। `संख्यासुपूर्वस्य` (पा.5।4।140) इत्यकारलोपः समासान्तः ॥

Verse 97
स निवेश्य कुशावत्यां रिपुनागाङ्गुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ उदगिति च। युग्मम्। स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा। सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम्। `लवो लेशे विलासे च छेदने रामनन्दने` इति विश्वः। शरावत्यां पुर्याम्। `शरादीनां च` (पा.6।3।120)इति `शर`-`कुश` शब्दयोर्दीर्घः। निवेश्य। सानुजोऽग्निपुरःसरः सन्। पत्यौ भर्तरि वात्सल्यादनुरागात्। गृहान् वर्जयित्वा गृहवर्जम्। `द्वितीयायां च` (पा.3।4।53) इति णमुल्। अयं क्वचिदपरीप्सायामपीष्यते `अनुदात्तं पदमेकवर्जम्` (पा.6।1।158) इत्येकाचः शेषतया व्याख्यातत्वात्। परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥

Verse 98
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ उदगिति च। युग्मम्। स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा। सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम्। `लवो लेशे विलासे च छेदने रामनन्दने` इति विश्वः। शरावत्यां पुर्याम्। `शरादीनां च` (पा.6।3।120)इति `शर`-`कुश` शब्दयोर्दीर्घः। निवेश्य। सानुजोऽग्निपुरःसरः सन्। पत्यौ भर्तरि वात्सल्यादनुरागात्। गृहान् वर्जयित्वा गृहवर्जम्। `द्वितीयायां च` (पा.3।4।53) इति णमुल्। अयं क्वचिदपरीप्सायामपीष्यते `अनुदात्तं पदमेकवर्जम्` (पा.6।1।158) इत्येकाचः शेषतया व्याख्यातत्वात्। परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥

Verse 99
जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जगृहुरिति॥ चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिवृष्टां तस्य रामस्य पदवीं मार्गं जगृहुः। तेऽप्यनुजग्मुरित्यर्थः ॥

Verse 100
उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपस्थितेति॥ उपस्थितं प्राप्तं विमानं यस्य तेन। भक्ताननुकम्पत इति भक्तानुकम्पिना। तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी चक्रे। `निःश्रेणिस्त्वधिरोहणी` इत्यमरः ॥

Verse 101
यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् । अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ यद्यस्मात्तत्र सरय्वां मज्जतां संमर्दः। गोप्रतरो गोप्रतरणम्। तत्कल्पोऽभूत्। अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ॥

Verse 102
स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूतां देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ॥

Verse 103
निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥
Metre: मन्दाक्रान्ता
सञ्जीविनीटीका (मल्लिनाथः): निर्वर्त्येति॥ विष्वक्सेनो विष्णुः। एवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य। लङ्कानाथं बिभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव। दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा। सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ॥

Showing 1281 to 1290 of 1569 verses