रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1291 to 1300 of 1569 verses
Verse 1
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रामनिर्वाणानन्तरम्। इतरे लवादयः सप्तरघुप्रवीराः। पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया। गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः। तदुक्तम्-`जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते` इति। तथा हि-सुभ्रातॄणां भावः सौभ्रात्रम्। `हायनान्त-` (पा.5।1।130) इत्यादिना युवादित्वादण्प्रत्ययः। एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥

Verse 2
ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ सेतुर्जलबन्धः। वार्ता कृषिगोरक्षणादिः। `वार्ता कृष्याद्युदन्तयोः` इति विश्वः। गजबन्ध आकरेभ्यो गजग्रहणम्। ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमर्था अपीत्यर्थः। ते कुशादयः। प्रविभज्यन्त इति प्रविभागाः। अन्योन्यदेशप्रविभागानां या सीमा ताम्। वेलां समुद्रा इव। न व्यतीयुर्नातिचक्रमुः। अत्र कामन्दकः-`कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्। खन्याकरधनादानं शून्यानां च निवेशनम्॥ अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत् ॥` इति ॥

Verse 3
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् । सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): चतुर्भुजेति॥ चतुर्भुजो विष्णुः, तस्यां शा रामादयः ते प्रभवाः कारणानि यस्य स तथोक्तः। दानं त्यागो मदश्च। `दानं गजमदे त्यागे` इति विश्वः। प्रवृत्तिर्व्यापारः प्रवाहश्च। दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव। अष्टधा भिन्नः सन्। विप्रससार विस्तृतोऽभूत्। `सामयोनिः` इत्यत्र पालकाप्यः-`सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः। हस्ताभ्यां परिगृह्याथ सप्त समान्यगायत। गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः ॥` इति ॥

Verse 4
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्‌धः । कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ अर्धं रात्रेरर्धरात्रः। `अर्धं नपुंसकम्` (पा.2।2।4) इत्येकदेशसमासः। `अहःसर्वैदेशसंख्यातपुण्यञ्च रात्रेः` (पा.5।4।87) इति समासान्तोऽच्प्रत्ययः। `रात्राह्नाहाः पुंसि` (पा.2।4।29) इति नियमात्पुंस्त्वम्। अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः, न तु सुप्तः। कुशः प्रवासस्थकलत्रवेषां प्रोषितभर्तृकावेषाम्। अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम्। सुप्सुपेति समासः। वनितामपश्यत् ॥

Verse 5
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाऽञ्जलिं बबन्ध ॥

Verse 6
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः। अनपोढार्गलमनुद्धाटितविष्कम्भमपि। `तद्विष्कम्भोऽर्गलं न ना` इत्यमरः (अ.को.2|2|18)। अगारम्। आदर्शतलं छायामिव। प्रविष्टां तां वनितां प्रोवाचावदत् ॥

Verse 7
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति। का त्वमिति च॥ युग्मम्। सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते। मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव। अनिर्वृतानां दुःखितानामाकारं बिभर्षि च। न हि योगिनां दुःखमस्तीति भावः। किं च, हे शुभे! त्वं का? कस्य वा परिग्रहः पन्ती? ते तव मदभ्यागमे कारणं वा किम्? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ॥

Verse 8
का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति। का त्वमिति च॥ युग्मम्। सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते। मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव। अनिर्वृतानां दुःखितानामाकारं बिभर्षि च। न हि योगिनां दुःखमस्तीति भावः। किं च, हे शुभे! त्वं का? कस्य वा परिग्रहः पन्ती? ते तव मदभ्यागमे कारणं वा किम्? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ॥

Verse 9
तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्निधिदेवतां माम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ सा वनिता तं कुशमब्रवीत्। अनवद्याऽदोषा या पूःस्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन्! मां संप्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥

Verse 10
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वस्वौकसारामिति॥ साऽहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या। वस्वौकसाराऽलका पुरी। `अलका पुरी वस्वौकसारा स्यात्` इति कोशः। अथवा, -मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी। `वस्वौकसारा शक्रस्य` इति विष्णुपुराणात्। तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥

Showing 1291 to 1300 of 1569 verses