अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 1211 to 1220 of 1285 verses
जयतु जयत्वार्यपुत्रः ।

सुन्दरि ।

बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया । यत्ते दृष्टमसंस्कारपाटलौष्ठपुटं मुखम् ॥
Metre: अनुष्टुप्

मातः क एषः ।

वत्स ते भागधेयानि पृच्छ ।

सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवं प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥
Metre: हरिणी

उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।

(राजोत्तिष्ठति)

अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ।

उद्धृतविषादशल्यः कथयिष्यामि ।

Showing 1211 to 1220 of 1285 verses