अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 1191 to 1200 of 1285 verses
अथ गृह्णाति ।

ततस्तं सर्पो भूत्वा दशति ।

भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।

अनेकशः ।

(सहर्षम् ।आत्मगतम्) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि ।

सुव्रते एहि ।इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते)

मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।

पुत्रक मया सह एव मातरमभिनन्दिष्यसि ।

मम खलु तातो दुष्यन्तः । न त्वम् ।

(सस्मितमेष विवाद एव प्रत्याययति (ततः प्रविशत्येकवेणीधरा शकुन्तला)

Showing 1191 to 1200 of 1285 verses