भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥
Metre: उपजातिः
(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः ।
यथा भद्रमुखो भणति ।अप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।
(अपवार्य) हन्त द्वितीयमिदमाशाजननम् ।
(प्रकाशम्)अथ सा तत्रभवती किमाख्यस्य राजऋषेः पत्नी ।
कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति ।
(स्वगतम्)इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि ।अथ वानार्यः परदारव्यवहारः । (प्रविष्य मृन्मयूरहस्ता)
सर्वदमन शकुन्तलावण्यं प्रेक्षस्व ।
(सदृष्टिक्षेपम्) कुत्र वा मम माता ।
नामसादृश्येन वञ्चितो मातृचत्सलः ।