अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 1231 to 1240 of 1285 verses
शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।

जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।

अप्याचरितव्यमभ्युदयकालेषु ।एह्येहि ।

(सर्वे परिक्रामन्ति) (ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः) (आनसस्थो)

(राजानमवलोक्य) दाक्षायणि ।

पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्मजातम् तत्कोटिमत्कुलिशमाभरणं मघोनः ॥
Metre: वसन्ततिलका

संभावनीयानुभावास्य आकृतिः ।

आयुष्मन्नेतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवैकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।

मातले ।

प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणम् भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदम् द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥
Metre: शार्दूलविक्रीडितम्

Showing 1231 to 1240 of 1285 verses