मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥
Metre: वसन्ततिलका
(नाममुद्रां दृष्ट्वा)आर्यपुत्र इदं तदङ्गुलीयकम् ।
अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ।
तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् ।
नास्य विश्वसिमि ।आर्यपुत्र एवैतद्धारयतु । (ततः प्रविशति मातलिः)
दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते ।
अभूत्संपादितस्वादुफलो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
(सस्मितम्) किमीश्वराणां परोक्षम् ।एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति ।