यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि३ ॥ ३१ ॥
१. वल्गु मनोज्ञम्। वल्गूयति प्रियंमनुते। मन्तुः क्रुत्। मन्तूयति क्रुध्यति। महीयते मह पूजायामित्यस्य। महत्सु न महीयते पूज्यम्मन्यतां वृणुते। २. इषुध अस्त्रधारणे, यज्वानः कं वीरम्, इषुध्यन्तु इषुधिमन्तं कुर्युः, मगध्यन्तु परिवेष्टयन्तु, मगध परिवेष्टन इत्यस्य। कुषुभ परोपमर्द्देनोपतिष्ठन्ताम्। भुरण्यति भुरण गतौ। भुरण्यति व्रजति। कण्वादिर्नामधातुश्च भवति। ३. साधारणधर्मस्य भिन्नत्वान्नोत्रोपमेयोपमा, तृतीयसदृशव्यवच्छेदाऽघटनात्।
१. 'कंसवधमाचष्टे कंसं घातयति',
२. 'आरात्रि विवासमाचष्टे रात्रिं विवासयति',
३. 'पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति',
४. उज्जयिनीतः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयती'—ति।
'आख्यानात् कृतस्तदाचष्ट इति णिच्' कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्', 'आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्', नक्षत्रयोगे ज्ञि', 'चित्रीकरणे प्रापी'—ति स्मर्य्यते।
प्रकृतिः षट्प्रकारैषा धातुरूपा निरूपिता।
अथ प्रत्ययरूपापि षट्प्रकारैव कथ्यते ॥ ३२ ॥