'यूनस्तिः' इत्येतस्यैव वा, 'एरक्तिन' इति विभाषितङीषो ढगुत्पत्तिः। यथा— आदितेयः, सौरभेय इति।
अथ काद्रवेयः कामण्डलेय इति कथम्? ङ्यापोरप्रातिपदिकत्वेऽपि हि 'ङ्याप्प्रातिपदिकाद्' (४.१.१) इति विशेषविधानात्। यूनस्तिरित्येतस्य तु तद्धितत्वात् अस्तु सुबुत्पत्तिः, ऊङस्तु प्रत्ययत्वेन सा न सिद्ध्यति, समर्थाच्च तद्धितेन भवितव्यम्। अन्तादिवद्भावाद् भविष्यति, तथाहि 'ब्रह्मबन्धूरि'—त्यादौ 'अकःसवर्णे दीर्घः' (६.१.१०१) इति द्वयोरेकत्वं भवति।
यद्येवं 'स्त्रीभ्यो ढग्' (४.१.१२०) इति ढक् (ङ्) न सिध्यति, सोऽप्याद्यन्तवद्भावाद् भविष्यती'ति। 'साऽस्य देवता' (४.२.२४) इति ज्ञापकाद् ऊङुत्पत्तेः प्रागेव वा सुबुत्पत्तिरिति।
उक्ता षोढैवमेषाऽपि प्रकृतिः प्रत्ययात्मिका।
अथातः प्रातिपदिकरूपा षोढैव कथ्यते ॥ ३३ ॥
(ग. प्रातिपदिकरूपा प्रकृतिः)
तत्र— १नामाऽ२व्ययाऽनुकरण३—कृत्४—तद्धित५—समासाः६ प्रातिपदिकानि। तदाह—
१. 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' (१.२.४५),
२. 'कृत्तद्धितसमासाश्च' (१.२.४६),
३. निपातस्य चानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या। (१.२.४६ मभा. वार्त्तिकम्)