(ख. प्रत्ययरूपा प्रकृतिः)
प्रत्यया हि १सुप्—२तिङ्—३कृत्—तद्धित४—धातुप्रत्यय५—स्त्रीप्रत्यय६—भेदात् षट् प्रकाराः। तदन्ता प्रकृतिरपि प्रत्ययरूपा षट्प्रकारैव भवति। सा (द्र. अष्टाध्याय्याः ३–६ अध्यायाः)
१. सुप्प्रत्ययान्ता यथा— अहंयुः, शुभंयुः, सायन्तनम्, चिरन्तनम्, त्वयका, मयका, आमुष्यायणः अप्सव्यः (६.३.१८), प्राह्णेतराम्, प्रगेतराम्, पूर्वाह्णेतनम्, समांसमीना इति।
२. तिङ्प्रत्ययान्ता यथा— पचतितराम्, गच्छतितमाम्, स्पृशतिरूपम्, जल्पतिकल्पम्, जिघ्रतिदेश्यम्, पश्यतिदेशीयम्, आस्तिकः, नास्तिकः, पचतकि, भिन्धकि, पचतभृज्जत, खादतमोदत इति।
३. कृत्प्रत्ययान्ता यथा— कृत्त्रिमम्, हृत्रिमम् पाकिमम्, सेकिमम्, सांकूटिनम् सांराविणम्, व्यावक्रोशी, व्यावहासी, श्यैनम्पाता, तैलम्पाता, जित्वरी, आढ्यङ्करणी इति।
४. तद्धितप्रत्ययान्ता यथा— गार्ग्यायणः, दाक्षायणः, वार्ष्यायणिः, वार्ष्यायणीयः, फाण्टाहृतः, फाण्टाहृतायनिः, आभिजित्यः, कौञ्जायन्यः, कुतस्त्यः, तत्रत्यः, पचतितराम्, पचतितमाम् इति।
५. धातुसंज्ञाप्रत्ययान्ता यथा— चिकीर्षा, कण्डूया, पुत्रीया, कारणा, मिश्रणा, मृगया, अटाट्या, सासहिः, यायावरः, यायजूकः, चिकीर्षुः, चङ्क्रमण इति।
६. स्त्रीप्रत्ययान्ता यथा— गाङ्गेयः, सौदामेयः, कारीषगन्धेयः, द्रौपदेयः, गौरेयः, शार्ङ्गरवेयः, क्राद्रवेयः, कामण्डलेयः, यौवतेयः, सौरभेयः, बहुस्त्रीकः, सुवधूक इति।
अथ कथं यौवतेय इति प्रत्ययप्रकृतावुदाहृतम्, यावता 'यूनस्ति' (४.१.७७) इति एतस्य तद्धितसंज्ञया प्रातिपदिकत्वमेव।
सत्यमेतत्। स्त्रीसामान्यपर्यायो युवतिशब्दः प्रकृत्यन्तरमस्ति। यथाह 'धर्मार्थाङ्ग— विद्याकालाननुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत, प्राग् यौवनाद् युवतिः' इति। तस्य।