५. कण्वादयो नामधातवः। यथा—
कण्डूयति न यो मर्म नर्मणा यो हृणीयते।
न कुष्यति रुषं यः स राजा राज्यं भिषज्यति ॥ २६ ॥४
१. मन्तूनपराधान् माऽनुस्कुनुहि मोदाहर। स्कुञ् उद्धरणे। ऋती घृणागत्योः। घृणा दया। ऋतीयस्व दयस्व। जिजाव/पयिषति। जु वेगितायां गतावित्यस्येति राघवः। जपतेस्तु ग्रहे जिजापयिषति साहसकौलीनश्वभ्रे पातयितुमिच्छतीत्यर्थः। २. कण्डनं प्रतीतचरं गाहासु, न तु खण्डनम्। विष्कम्भः स्तूपः। उत्तम्भः उल्लासः। निस्तुभ्नाति गायति। ३. सातिः सुखम्। दाह्येभ्यः सातिः सुखम्। योषित्सु सातिपदार्थाऽऽरोपः। ४. कण्डूयति स्पृशति। हृणीयते लज्जते। कुष् प्रकाशे दैवादिकः, कुष्यति प्रकाशयति। भिषज्यति चिकित्सते। भिषज् चिकित्सायाम्। राघवोऽत्र तैमिरिकायते।
वल्गूयति न योऽसाधुमसूयति न साधवे।
मन्तूयति न मान्याय महत्सु न महीयते ॥ २७ ॥१
कमिषुध्यन्तु यज्वानः कं मगध्यन्तु मागधाः।
कमर्थिनः कुषुभ्यन्तु रामेऽरण्यं भुरण्यति ॥ २८ ॥२
धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि।
आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥