भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Disable Parallel


Showing 71 to 80 of 32222 verses
पवनो बीजयन्नाशा मानाशामुच्चुलुम्पति ॥ १७ ॥२

तडित्खचयतीवाशा नसन्ते३ शर्म्म वर्हिणः।

पान्थस्त्रीश्‍वासवेगौष्ण्यं विधमन्त्यद्बवायवः ॥ १८ ॥

मिलन्त्याशासु जीमूता विक्लवन्ते दिवि ग्रहाः।

तापं क्षपयति प्रावृट् क्षीयन्ते कामिविग्रहाः ॥ १९ ॥

१. तथा च काशिका 'प्रकृतिरुपादानकारणम्' (सू॰ ५.१.१२)। अत्रत्या काशिकाऽवश्यमेव द्रष्टव्या। २. उच्चुलुम्पति विलोपयति। ३. नसतिराप्नोतिकर्मा (निरुक्ते ७.१७)। जसन्ते यान्ति।

३. ये सूत्रेष्वेव पठ्यन्ते, न भूवादिषु, ते परिपठिताऽपरिपाठिताः, 'स्कु' इत्यादयः। यथा—

अनुस्कुनुहि मा मन्तून्, वसन्तो मान—घस्मरः।

दूति! द्रुतमृतीयस्य जिजावयिषति स्मरः ॥ २० ॥१

मुसलक्षेपहुङ्कारस्तोभैः कलम—कण्डिनि!।

Showing 71 to 80 of 32222 verses