स च (अर्थः) द्वादशधा १. क्रिया, २. कालः, ३. कारकम्, ४. पुरुषः, ५. उपाधिः, ६. प्रधानम्, ७. उपस्कारार्थः, ८. प्रातिपदिकार्थः, ९. विभक्त्यर्थः, १०. वृत्त्यर्थः, ११. पदार्थः, १२. वाक्यार्थ इति।
स च(सम्बन्धः) द्वादशधा १. अभिधा, २. विवक्षा, ३. तात्पर्यम्, ४. प्रविभागः, ५. व्यपेक्षा, ६. सामर्थ्यम्, ७. अन्वयः, ८. एकार्थीभावः, ९. दोषहानम्, १०. गुणोपादानम्, ११. अलङ्कारयोगः, १२. रसावियोग इति।
१. प्राकृतं पदमेतत् तद्भवत्वेन नेयं 'सत्यापिता' इत्यस्य मूलस्य, सुसीसंता इति च कस्यचिदपरस्याऽप्रसिद्धस्य संस्कृतपदस्य, आदिगुरुणा भरतमुनिना प्राकृतस्य संस्कृतविकृतित्वेन गृहीतचरत्वात्। नाट्यशास्त्रे १७.०२ २. वामनाः पुनः सन्दर्भेषु दशरूपकं श्रेय' इति वदन्ति। *१–४ शब्दभेदाः प्रथमप्रकाशे, ५–६ द्वितीयप्रकाशे, ९–१२ तृतीयप्रकाशे निरूपिताः।
तत्र यद्यपि 'न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्ययः' (मभा. १.२.६४) तथापि धर्मनियमाय शास्त्रक्रियाव्यवहारे प्रकृतिप्रत्ययविभागकल्पना। (तत्र)
शब्दार्थभावनायां प्रत्ययात् प्रथममुपादानकारणमिव योपादीयते तां प्रकृतिरिति१ व्यपदिशन्ति।
सा (प्रकृतिः) त्रिधा— (क) धातुरूपा, (ख) प्रत्ययरूपा, (ग) प्रातिपदिकरूपा च।