तवास्मि मां धातुकमप्युपेक्षसे मृषामरं हाऽमरगौरवात्स्मरम् । अवेहि चण्डालमनङ्गमङ्ग ! तं स्वकाण्डकारस्य मघोः सखा हि सः ॥
Metre: वंशस्थम्
लघौ लघावेव पुरः परे बुधैः विधेयमुत्तेजनमात्मतेजसः । तृणे तृणेढि ज्वलनः खलु ज्वलन्क्रमात्करीषद्रुमकाण्डमण्डलम् ॥
Metre: वंशस्थम्
सुरापराधस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि । गिरापि वक्ष्यन्ति मखेषु तर्पणाद् इदं न देवा मुखलज्जयैव ते ॥
Metre: वंशस्थम्
व्रजन्तु ते तेऽपि वरं स्वयंवरं प्रसाद्य तानेव मया वरिष्यसे । न सर्वथा तानपि न स्पृशेद्दया न तेऽपि तावन्मदनस्त्वमेव वा ॥
Metre: वंशस्थम्
इतीयमालेख्यगतेऽपि वीक्षिते त्वयि स्मरव्रीडसमस्ययानया । पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारघसारसारणी ॥
Metre: वंशस्थम्
चण्डालस्ते विषामविशिखः स्पृश्यते दृश्यते न ख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः । कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान्हरति हरितस्त्वद्यशस्तज्जुषन्ताम् ॥
Metre: मन्दाक्रान्ता
अथ भीमभुवैव रहोऽभिहितां नतमौलिरपत्रपया स निजाम् । अमरैः सह राजसमाजगतिं जगतीपतिरभ्युपगत्य ययौ ॥
Metre: तोटकम्
श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रयान्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः । चत्वारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षया तत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥
Metre: शार्दूलविक्रीडितम्
तदखिलमिह भूतं भूतगत्या जगत्याः पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् । त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षात्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥
Metre: मालिनी
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्