नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 131 to 138 of 138 verses
Verse 131
कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः । रूपस्य शिल्पे वयसाऽपि वेधा निजीयते स स्मरकिङ्करेण ॥
Metre: उपजातिः

Verse 132
गुरोरपीमां भणदोष्ठकण्ठं निरुक्तिगर्वच्छिदया विनेतुम् । श्रमः स्मरस्यैव भवं विहाय मुक्तिं गतानामनुतापनाय ॥
Metre: उपजातिः

Verse 133
आख्यातुमक्षिव्रजसर्वपीतां भैमीं तदेकाङ्गनिखातदृक्षु । गाथासुधाश्लेषकलाविलासैरलंचकाराननचन्द्रमिन्द्रः ॥
Metre: उपजातिः

Verse 134
स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा । हेमेव कायप्रभयाङ्गशेषैस्तन्वी मतिं क्रामति मे न कापि ॥
Metre: उपजातिः

Verse 135
इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन । व्याकृत्य मर्त्योचितमर्थमुक्तेराखण्डलस्तस्य नुनोद शङ्काम् ॥
Metre: उपजातिः

Verse 136
स्वं नैषधादेशमहो विधाय कार्यस्य हेतोरपि नानलः सन् । किं स्थानिवद्भावमधत्त दुष्टं तादृक्कृतव्याकरणः पुनः सः ॥
Metre: इन्द्रवज्रा

Verse 137
इयमियमधिरथ्यं याति नेपथ्यमञ्जुर्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः । इति जनजनितैः सानन्दनादैर्विजघ्ने नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥
Metre: मालिनी

Verse 138
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्

Showing 131 to 138 of 138 verses