खण्डः किमु त्वद्गिर एव खण्डः किं शर्करा तत्पथशर्करैव । कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छतृणं नु दिक्षु प्रथितं तदिक्षुः ॥
Metre: उपजातिः
ददाम किं ते सुधयाऽधरेण त्वदास्य एव स्वयमास्यते हि । चन्द्रं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि ॥
Metre: उपजातिः
प्रिये ! वृणीष्वामरभावमश्मत् इति त्रपाकृद्वचनं न किं नः । त्वत्पादपद्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः ॥
Metre: उपजातिः
नास्माकमस्मान्मदनापमृत्योः त्राणाय पीयूषरसायनानि । प्रसीद अस्मादधिकं निजं तु प्रयच्छ पातुं रदनच्छदं नः ॥
Metre: उपजातिः
प्लुष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभूद्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् । भ्रूभ्यां ते तन्वि ! धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्तादस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥
Metre: स्रग्धरा
स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये । नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं तन्नस्तन्वङ्गि ! कैश्चिन्न करणहरिणैर्वागुरा लङ्घितासि ॥
Metre: स्रग्धरा
इति धृतसुरसार्थवाचिकस्रङ्ग्निजरसनातलपत्रहारकस्य । सफलय मम दूततां वृणीष्व स्वयमवधार्य दिगीशमेकमेषु ॥
Metre: पुष्पिताग्रा
आनन्दयेन्द्रमथ मन्मथमग्नमग्निं केलीभिरुद्धर तनूदरि ! नूतनाभिः । आसादयोदितदयं शमने मनो वा नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥
Metre: वसन्ततिलका
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्