नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 101 to 110 of 110 verses
Verse 101
रुषारुणा सर्वगुणैर्जयन्त्या भैम्याः पदं श्रीः स्म विधेर्वृणीते । ध्रुवं स तामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥
Metre: उपजातिः

Verse 102
यानेन तन्व्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी । जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः ॥
Metre: उपजातिः

Verse 103
कर्णाक्षिदन्तच्छदबाहुपाणिपादादिनः स्वाखिलतुल्यजेतुः । उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम् ॥
Metre: उपजातिः

Verse 104
तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः । पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्याभिक्षाधुना माधुकरीसदृक्षा ॥
Metre: उपजातिः

Verse 105
एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् । इमे पदाब्जे विधिनापि सृष्टाः तावत्य एवाङ्गुलयोऽत्र लेखाः ॥
Metre: उपजातिः

Verse 106
प्रियानखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥
Metre: उपजातिः

Verse 107
यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या । कला चतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नास्याम् ॥
Metre: उपजातिः

Verse 108
सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन । वैदग्ध्यमध्याप्य मनोभुवेयम् अवापिता वाक्पथपारमेव ॥
Metre: उपजातिः

Verse 109
इति स चिकुरादारभ्यैनां नखावधि वर्णयन्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः । हृदयभरणोद्वेलनन्दः सखीवृतभीमजानयनविषयीभावे भावं दधार धराधिपः ॥
Metre: हरिणी

Verse 110
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महाकाव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥
Metre: शार्दूलविक्रीडितम्

Showing 101 to 110 of 110 verses