अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 81 to 90 of 197 verses
पुरुवंशः ।

(आत्मगतम्) कथमेकान्वयो मम ।अतः खलु मदनुकारिणमेनमत्रभवती मन्यते ।अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् ।

भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥
Metre: उपजातिः

(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः ।

यथा भद्रमुखो भणति ।अप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।

(अपवार्य) हन्त द्वितीयमिदमाशाजननम् ।

(प्रकाशम्)अथ सा तत्रभवती किमाख्यस्य राजऋषेः पत्नी ।

कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति ।

(स्वगतम्)इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि ।अथ वानार्यः परदारव्यवहारः । (प्रविष्य मृन्मयूरहस्ता)

सर्वदमन शकुन्तलावण्यं प्रेक्षस्व ।

Showing 81 to 90 of 197 verses