अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 71 to 80 of 197 verses
भवतु । न मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र ऋषिपुमाराणाम् । (राजानमवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण* डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । (*दुर्मोक)

(उपगम्य । सस्मितम्)अयि भो महर्षिपुत्र ।

एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥
Metre: रथोद्धता

भद्रमुख न खल्वयम् ऋषिकुमारः ।

आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवं तर्किणः । (यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य ।आत्मगतम्)

अनेन कस्य अपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥
Metre: इन्द्रवज्रा

(उभौ निर्वर्ण्य)आश्चर्यमाश्चर्यम् ।

आर्ये किमिव ।

अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मितास्मि ।अपरिचितस्य अपि तेऽप्रतिलोमः संवृत्त इति ।

(बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः ।

Showing 71 to 80 of 197 verses