अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 191 to 197 of 197 verses
अपि च ।

तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व । युगशतपरिवर्तानेवमन्योन्यकृत्यैर् नयतमुभयलोकानुग्रहश्लाघनीयैः ॥
Metre: मालिनी

भगवन्यथाशक्ति श्रेयसे यतिष्ये ।

वत्स किं ते भूयः प्रियमुपकरोमि ।

राज अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति तर्हि इदमस्तु । (भरतवाक्यम्)

प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् । मम अपि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥
Metre: रुचिरा

(निष्क्रान्ताः सर्वे)

Showing 191 to 197 of 197 verses