अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
अस्ति । श्रुतपूर्वं मया नारदात् ।
सख्युस्ते स किल शतक्रतोरजय्यस् तस्य त्वं रणशिरसि स्मृतो निहन्ता ।उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस् तन्नैशं तिमिरमपाकरोति चन्द्रः ॥
Metre: प्रहर्षिणी
स भवानात्तशस्त्र एवेदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् ।
अनुगृहीतोऽहमनया मघवतः संभावनया ।अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् ।
तदपि कथ्यते । किं निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः ।
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥
Metre: आर्या
(जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा ।
तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।