भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति ।एष तमिषुं संदधे ।
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥
Metre: अनुष्टुप्
(ततः प्रविशति विदूषकमुत्सृज्य मातलिः)
कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥
Metre: वंशस्थम्
(ससंभ्रममस्रमुपसंहरन्)अये मातलिः । स्वागतं महाइन्द्रसारथे । (प्रविश्य)
अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते ।
(सस्मितम्)आयुष्मञ्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः ।