(गतिभेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये)
(पुनस्तदेव पठित्वा) कथं न भेष्यामि ।एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोमि ।
(सदृष्टिक्षेपम्) धनुस्तावत् । (प्रविश्य शार्ङ्गहस्ता)
भर्तः एतद्हस्तावापसहितं शरासनम् ।
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥
Metre: प्रहर्षिणी
(सरोषम्) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि । (शार्ङ्गमारोप्य) वेत्रवति सोपानमार्गमादेशय । (सर्वे सत्वरमुपसर्पन्ति)
राजा (समन्ताद्विलोक्य) शून्यं खल्विदम् । (नेपथ्ये)
अविहा ।अविहा ।अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।