९. कालोपधानं यथा—(गास. ८९९वे.)
हिमचुण्णजोअहत्थाओ जस्स दप्पं कुणंति राईओ।
कह तस्स् पिअस्स मए तीरइ माणो हला काउं॥ ३८७॥
(हिमचूर्णयोगहस्ता यस्य दर्पं कुर्वन्ति रात्रयः।
कथं तस्य प्रियस्य मया शक्यते मानः सख्यः कर्तुम्॥)
चुंबसु सहस्सहुत्तं मुहमिणमो हारिअं मए जुए।
माणो उण मुच्चइ सामलं कह माणइत्तीए॥ ३८८॥
(चुम्ब सहस्रकृत्वो मुखमिदं हारितं मया द्यूते।
मानः पुनर्मुच्यते श्यामलाङ्गि कथं मानमुक्तायाः॥)