(आदरप्रणामितोष्टमघटितनासमसंहतनिटालम् ।
वर्णघृतलिप्तमुख्यास्तस्या परिचुम्बितं स्मरामः॥)
जाणामि जणो णिउणो गुरुजणमज्झंम्मि संठिआ अ अहं।
ता किं करेमि पिअसहि! धरिआ वि बला वलइ दिट्ठी॥ २११॥
{जानामि जनो निपुणो गुरुजनमध्ये संस्थिता (चाहम्)।
तत् किं करोमि? प्रियसखि! धृताऽपि बलाद् वलते दृष्टिः॥}
१.६. २१ नागरो यथा—(गास. ४.७०)
किं ण भणिओ सि बालअ! गामणिधूआए गुरुअणसमक्खं।
अणिमिस-वंक्क-वलंतअ-आणण-णअणद्ध-दिट्टेहिं॥ २१२॥