{प्रणयस्खलनाशङ्कलूनां लोकापवादभीतानाम्(भीरुणाम्)।
लज्जालूनां कालः एवमेव हि गतो निरवशेषः॥}
१.६.१८ लज्जानिमित्तो यथा—
सलिलोल्लदारुआइँ व अंतो च्चिअ सिमिसिमाअमाणाइं।
मअणाणलेण लज्जालुआणँ डज्झंति हिअआइं॥ २०९॥
{सलिलार्द्रदारुकाणीव अन्तरेव सिमसिमायमानानि।
मदनानलेन लज्जालूनां दह्यन्ते हृदयानि॥}
१.६. १९ कालनियतो यथा—(गास. १.२२)
आअरपणामिओट्ठं अघडिअणासं असंहअ—णिडालं।
वण्णग्घिअ-तुप्प-मुहिएँ तीएँ परिउंबिअं भरिमो॥ २१०॥